阿闼婆吠陀 · 颂诗(Sūkta) 20.31
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.31.1
ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी ।
पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥ २०.३१.१ ॥
两匹可爱的枣红马在战车上载着持金刚、欢喜、值得赞颂的因陀罗,他沉醉其中。众多的压榨属于他;为因陀罗已倾注了黄褐色的苏摩。
20.31.2
अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन् हरयो हरी तुरा ।
अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥ २०.३१.२ ॥
为了欲望,黄褐色的苏摩已充分倾注;为了坚定者,那催动的黄褐色苏摩,那两匹迅疾的枣红马。与马、与枣红马欣然同行者,得到他的愿望,即拥有枣红马者。
20.31.3
हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत ।
अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥ २०.३१.३ ॥
黄褐色胡须、黄褐色头发,如铁般坚硬,在迅捷的饮用中作为饮黄褐色苏摩者而壮大的。与马、与枣红马同在,富有力量与财富,将一切困厄渡过——那两匹枣红马。
20.31.4
श्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः ।
प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥ २०.३१.४ ॥
他那两根黄褐色缰绳如勺般飞舞;为了力量,那两匹摇动颊带的黄褐色之物。当它们在所造的杯中净化黄褐色苏摩时,已饮下那可欲苏摩的醉意。
20.31.5
उत स्म सद्न हर्यतस्य पस्त्योरत्यो न वाजं हरिवामचिक्रदत् ।
मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतस्चिदा ॥ २०.३१.५ ॥
而且,在那可欲者的居所,如同赛马一般,拥有枣红马的骏马高声嘶鸣。因为伟大的智慧,可欲者啊,你以力量承载广大的寿命;那可欲者也在此。