Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 20.34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

20.34.1

यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् ।
यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥ २०.३४.१ ॥

他生而即为第一,乃心智强盛的神,以其意志庄严诸神;因其力量,两界颤抖,凭其伟大与威力——众人啊,他就是因陀罗。

20.34.2

यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान् प्रकुपितामरम्णात् ।
यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥ २०.३४.२ ॥

他使颤抖的大地坚定,平息愤怒的群山;他广阔地丈量虚空,支撑天空——众人啊,他就是因陀罗。

20.34.3

यो हत्वाहिमरिणात्सप्त सिन्धून् यो गा उदाजदपधा वलस्य ।
यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥ २०.३४.३ ॥

他杀死蛇妖,释放七条河流;他从伐罗的堡垒中驱出牛群;他在两块石头之间生出火,在战斗中获胜——众人啊,他就是因陀罗。

20.34.4

येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः ।
श्वघ्नीव यो जिगीवां लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥ २०.३४.४ ॥

由他,这一切可动之物被造成;他制服了隐藏的敌人、低等的种姓;他如猎狗者般获胜,夺取了战利品与财富——众人啊,他就是因陀罗。

20.34.5

यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् ।
सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥ २०.३४.५ ॥

人们问“他在哪里”的那位,有人说“此人不存在”的那位可畏者;那位主宰像鸟一样散去财富——众人啊,请信赖他,他就是因陀罗。

20.34.6

यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः ।
युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥ २०.३४.६ ॥

他激励弱者、瘦弱者、祈祷的梵,以及恳求的歌者;他是压榨石已套好、美颌、为之榨取苏摩者的守护者——人们啊,他就是因陀罗。

20.34.7

यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः ।
यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥ २०.३४.७ ॥

他的马在四方,他的牛、村落与一切车辆皆属于他;他生出太阳,生出黎明,是诸水的引导者——人们啊,他就是因陀罗。

20.34.8

यं क्रन्दसी संयती विह्वयेते परेऽवरे उभया अमित्राः ।
समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥ २०.३४.८ ॥

因他之故,哭号的二界一同震颤,远近两方的敌人皆然;他们同立于一辆车上,却各自分别呼唤他——人们啊,他就是因陀罗。

20.34.9

यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते ।
यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥ २०.३४.९ ॥

没有他,人们无法获胜;战斗者向他呼求救护;他成为一切的标准,连不动者也能使之动摇——人们啊,他就是因陀罗。

20.34.10

यः शस्वतो मह्येनो दधानान् अमन्यमानां छर्वा जघान ।
यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥ २०.३४.१० ॥

他以拳击杀了许多承负大罪而不自知的人;他不向傲慢者和敌人让步,是恶魔的杀者——人们啊,他就是因陀罗。

20.34.11

यः शम्भरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् ।
ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥ २०.३४.११ ॥

在第四十年找到隐藏于山中的商婆罗的人,击杀成长中的蛇阿希与伏击中的达努的人——他,诸位,便是因陀罗。

20.34.12

यः शम्भरं पर्यतरत्कसीभिर्योऽचारुकास्नापिबत्सुतस्य ।
अन्तर्गिरौ यजमानं बहुं जनं यस्मिन्न् आमूर्छत्स जनास इन्द्रः ॥ २०.३४.१२ ॥

以绳套胜过商婆罗、从压榨的苏摩中饮下苦涩之饮、在山中令施主与众人昏厥的人——他,诸位,便是因陀罗。

20.34.13

यः सप्तरश्मिर्वृषभस्तुविष्मान् अवासृजत्सर्तवे सप्त सिन्धून् ।
यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥ २०.३४.१३ ॥

那七道光芒、强大的公牛,释放七条河流使之奔流;手持金刚的他震动了正升向天空的罗希那——他,诸位,便是因陀罗。

20.34.14

द्यावा चिदस्मै पृथिवी ममेते शुष्माच्चिदस्य पर्वता भयन्ते ।
यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥ २०.३४.१४ ॥

连天与地也属于他;连群山也因他的力量而战栗。饮苏摩、稳固安立、手臂持金刚、手握金刚的人——他,诸位,便是因陀罗。

20.34.15

यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती ।
यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥ २०.३४.१५ ॥

以自己的帮助保护压榨苏摩者、烹煮者、颂唱者与敬拜者;其神圣之言增长,苏摩属于他,此财富属于他——他,诸位,便是因陀罗。

20.34.16

जातो व्यख्यत्पित्रोरुपस्थे भुवो न वेद जनितुः परस्य ।
स्तविष्यमाणो नो यो अस्मद्व्रता देवानां स जनास इन्द्रः ॥ २०.३४.१६ ॥

他生于父母膝下而显现;他不知大地的至高生育者。被我们赞颂、使诸神之誓离我们而去的那一位,诸人啊,便是因陀罗。

20.34.17

यः सोमकामो हर्यश्वः सूरिर्यस्माद्रेजन्ते भुवनानि विश्वा ।
यो जघान शम्बरं यश्च शुष्णं य एकवीरः स जनास इन्द्रः ॥ २०.३४.१७ ॥

渴望苏摩、拥有黄褐马、智慧的他,一切世界因他而战栗;他杀死了商跋罗,也杀死了舒斯那,是唯一的英雄——诸人啊,那便是因陀罗。

20.34.18

यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः ।
वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥ २०.३४.१८ ॥

你坚定地赐予压榨苏摩与烹煮者力量——你的确是真实的。因陀罗啊,愿我们永远为你所爱,拥有善良的英雄,在集会中(谈论你)。