阿闼婆吠陀 · 颂诗(Sūkta) 20.35
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.35.1
अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय ।
ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा ॥ २०.३५.१ ॥
我向那强大而迅捷者献上赞歌,如同献上食物。向伟大的因陀罗,与梨俱诗相当、不动摇的歌者,慷慨地奉上了梵咒。
20.35.2
अस्मा इदु प्रय इव प्र यंसि भराम्यान्गूषं बाधे सुवृक्ति ।
इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥ २०.३५.२ ॥
我为他献上赞歌,如同食物,带来高声的颂词,并以精巧的言辞催动它。以心、以意、以思,为古老的主宰因陀罗净化心智。
20.35.3
अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन ।
मंहिष्ठमछोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥ २०.३५.३ ॥
为那最优秀、胜过天光者,我以口献上高声的颂词,以最慷慨的思想,以响亮而精巧的赞美,使智者增长。
20.35.4
अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय ।
गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥ २०.३५.४ ॥
为他,我如工匠造车般,把赞歌缀合起来。献给被歌声承载、能催动一切且有智慧的因陀罗,以精巧的言辞与歌曲。
20.35.5
अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे ।
वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥ २०.३५.५ ॥
为他,如同求名者涂油于骏马,我以祭勺为因陀罗涂抹颂咒,以颂扬那英雄、施舍之家的主人、摧毁城堡、拥有盛名之力者。
20.35.6
अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय ।
वृत्रस्य चिद्विदद्येन मर्म तुजन्न् ईशानस्तुजता कियेधाः ॥ २०.३५.६ ॥
为他,特瓦史塔尔锻造了雷杵,最为精巧、属于天界、用于战斗,以之刺穿弗栗多的要害。作为主宰而冲击,强者以其冲击贯穿了他。
20.35.7
अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवां चार्वन्ना ।
मुषायद्विष्णुः पचतं सहीयान् विध्यद्वराहं तिरो अद्रिमस्ता ॥ २०.३५.७ ॥
在他母亲的榨取中,他立刻饮下了大量的汁液与美食;毗湿奴偷走了煮熟的食物;强者刺穿了野猪,并把岩石横掷而出。
20.35.8
अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः ।
परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥ २०.३५.८ ॥
为他,诸神之妻也在杀蛇之时为因陀罗唱赞歌;广阔的天地拥抱了他;二者都无法环绕他的伟大。
20.35.9
अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात् ।
स्वरालिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥ २०.३५.९ ॥
他的伟大确实超过了天、地与中间的虚空;受众人赞颂的因陀罗,如光明般立于屋中;为战斗,他无拘束地成长了。
20.35.10
अस्येदेव शवसा शुशन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः ।
गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥ २०.३५.१० ॥
凭借他自身的力量,因陀罗以雷杵将光耀的弗栗多斩断;如同解开被缚的牛群,他释放了向下流淌的水;警觉的因陀罗转向以施舍而得的名声。
20.35.11
अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयच्छत् ।
ईशानकृद्दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः ॥ २०.३५.११ ॥
凭着他炽烈的威力,河流奔涌而出,那时他以金刚杵将它们从四面围住。他使施主成为主宰,为图尔维提开辟了渡口;他是战胜敌人者。
20.35.12
अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः ।
गोर्न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्यपां चरध्यै ॥ २०.३५.१२ ॥
为他而快速地向弗栗多投掷金刚杵;他是主宰,力量何等强大!如同牛的关节,他劈开水流,使水得以流动。
20.35.13
अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः ।
युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥ २०.३५.१३ ॥
以新的颂歌宣说这迅捷者的古老功业:在战斗中,他寻觅兵器、奋力冲击,驱散敌人。
20.35.14
अस्येदु भिया गिरयश्च दृल्हा द्यावा च भूमा जनुषस्तुजेते ।
उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः ॥ २०.३५.१४ ॥
因畏惧他,坚固的山岳与天地自生成以来便颤抖。呼唤吠那者来到近前;诺陀立刻为勇力而准备。
20.35.15
अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः ।
प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः ॥ २०.३५.१५ ॥
为他,确实,这些人中的一位随后被分得份额,当这位主宰选择丰饶之时。为太阳而竞争的疾行者埃塔沙,在苏婆什婆竞赛中,因陀罗以压榨的苏摩护佑了他。
20.35.16
एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् ।
ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात् ॥ २०.३५.१६ ॥
如此,因陀罗啊,为你——以赤褐马驾车、被善加赞颂者——瞿昙们作成了这些梵咒。请在其中置入一切美好形态的智慧;愿他于晨曦时迅速到来,以智慧为财富而充盈。