Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 20.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

20.36.1

य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः ।
यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥ २०.३६.१ ॥

我以这些歌咏赞颂那位在众民中唯一值得呼唤的因陀罗,他如公牛般主宰,充满雄力,真实、强健、多幻术,且得胜而统治。

20.36.2

तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः ।
नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् ॥ २०.३६.२ ॥

我们古老的祖先、九群牛的后裔以及渴求力量的七位智者,都达到了他:那居于山上、言语无欺、杀死达娑的、迅捷而最为强大的因陀罗,他们以思想获得了他。

20.36.3

तमीमहे इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः ।
यो अष्कृधोयुरजरः स्वर्वान् तमा भर हरिवो मादयध्यै ॥ २०.३६.३ ॥

我们向因陀罗祈求他的财富,那富有众多英雄、人众与诸般财产者;把那不可阻挡、不老、拥有天光的他,驾黄马的主啊,为了我们的欢乐请带到这里。

20.36.4

तन् नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र ।
कस्ते भागः किं वयो दुध्र खिदुः पुरुहूत पुरूवसोऽसुरघ्नः ॥ २०.३६.४ ॥

因陀罗啊,若从前的歌者曾得你的恩惠,请为我们说明:你的份额是什么,你的食物是什么?难以制服者,众所呼唤者,富于财物者,杀阿修罗者啊!

20.36.5

तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः ।
तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥ २०.३६.५ ॥

向那手持金刚、居于战车之上的因陀罗发问,颤抖着说话,她的歌声如今响起,传向那握力强大、力量巨大、给予欢喜、迅捷的他,为了道路与食物。

20.36.6

अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन ।
अच्युता चिद्वीलिता स्वोजो रुजो वि दृल्हा धृषता विरप्शिन् ॥ २०.३६.६ ॥

如此,他凭借其幻术而增长,迅捷如意念,凭自身本性而强大,与山同在。啊,毗罗普新,你以不动摇、牢固结合的自身威力,勇猛地摧毁坚固的堡垒。

20.36.7

तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै ।
स नो वक्षदनिमानः सुवह्नेन्द्रो विश्वान्यति दुर्गहाणि ॥ २०.३६.७ ॥

以新的心念,呼唤那至为强大、如古昔一般古老的他,在战斗中加以考验。愿那无量的因陀罗以良马载我们越过一切艰难的隘口。

20.36.8

आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा ।
तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षामपश्च ॥ २०.३६.८ ॥

为那恶意之人,点燃地上、天上的世界与虚空。啊,雄健的公牛,以你的火焰从四面灼烧它们;为那憎恨梵之人,连大地与水也一并焚烧吧。

20.36.9

भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक् ।
धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥ २०.३६.९ ॥

你是天上与地上、动与不动之世界与人类的王,容貌光耀。啊,因陀罗,请以右手执持金刚杵;啊,不朽者,你驱散一切幻术。

20.36.10

आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम् ।
यया दासान्यार्याणि वृत्रा करो वज्रिन्त्सुतुका नाहुषाणि ॥ २०.३६.१० ॥

啊,因陀罗,为我们带来有序、广大、不衰的吉祥,以克服敌人;凭此,啊,持金刚者,你轻易地为雅利安人降服奴仆、敌对的弗栗多以及凡人的那胡沙敌人。

20.36.11

स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो ।
न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक् ॥ २०.३६.११ ॥

多被召请者、创造者、众所欲求者、值得供奉者啊,请与那些马群一同来到我们这里。与它们一同快速前来吧,喜乐的赐予者,前往那不神所阻、神所不阻之处。