Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 20.37

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

20.37.1

यस्तिग्मशृङ्गो वृषभो न भीमः एकः कृष्टीश्च्यवयति प्र विश्वाः ।
यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥ २०.३७.१ ॥

如同长着锐角的凶猛公牛,他独自震撼并驱逐所有部族。自古以来,你为压榨苏摩的祭主,把吝啬者家中的财富带到面前。

20.37.2

त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये ।
दासं यच्शुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥ २०.३७.२ ॥

因陀罗啊,正是你在战斗中保护了以身侍奉的库part。你愿意帮助阿周那之子,为他降伏了那名叫穆沙与库雅瓦的敌人。

20.37.3

त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम् ।
प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥ २०.३७.३ ॥

勇猛者啊,你以勇气与一切护佑,守护了维塔哈维亚与苏达斯。你保护了补鲁库特萨之子特拉萨达斯雅;在为获得土地而诛杀弗栗多的战斗中,你保护了补鲁。

20.37.4

त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि ।
त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥ २०.३७.४ ॥

使人欢喜者啊,你与众人在诸神的盛宴中杀死众多弗栗多(敌人)。黄骠之主啊,你使达舍人楚穆利与敦尼沉睡,为护持达比提而轻易将他们诛灭。

20.37.5

तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः ।
निवेशने शततमाविवेषीरहं च वृत्रं नमुचिमुताहन् ॥ २०.३७.५ ॥

执金刚者啊,这些是你的功业:你一瞬间攻破九十九座城堡,并进入第一百座的住处。我也杀了弗栗多和那目之。

20.37.6

सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे ।
वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥ २०.३७.६ ॥

因陀罗啊,你的食物自古以来就有,为献供的施主,为苏达斯。我套上你那两匹雄健的枣红马;愿祈祷与力量抵达你,啊,众人所爱者。

20.37.7

मा ते अस्यां सहसावन् परिष्टावघाय भूम हरिवः परादौ ।
त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥ २०.३७.७ ॥

啊,强大者,愿我们在此境况中不落入伤害之祸;啊,骣马之主,在败北之时不要抛弃我们。以无害的庇护保护我们;愿我们作为你所爱者,处于智者之中。

20.37.8

प्रियास इत्ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः ।
नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥ २०.३७.८ ॥

啊,慷慨者,愿我们作为你所爱的人,在你的召唤中、你的庇护下,以朋友之身欢喜。请降伏图尔瓦夏与雅度,为阿提提格瓦成就值得赞颂之事。

20.37.9

सद्यश्चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्युक्थशास उक्था ।
ये ते हवेभिर्वि पणींरदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ॥ २०.३७.९ ॥

啊,慷慨者,在你的召唤中,人们立刻赞颂你,诵读颂歌者吟诵颂歌。那些借你的呼唤驱散帕尼的人——请选我们作那样的伴侣。

20.37.10

एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि ।
तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥ २०.३७.१० ॥

啊,最勇壮者,这些人们的颂歌都献给你——你转向我们、赐予财富。啊,因陀罗,在诛杀弗栗多的战斗中,愿你对他们吉祥;愿你成为朋友、英雄与人们的护佑者。

20.37.11

नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व ।
उप नो वाजान् मिमीह्युप स्तीन् यूयं पात स्वस्तिभिः सदा नः ॥ २०.३७.११ ॥

现在,因陀罗,英雄,被赞颂者,为了救助,受神圣言语激励,在你的身体中增长吧。赐予我们战利品,也赐予牛群;愿你们永远以吉祥保护我们。