Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 20.47

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

20.47.1

तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
स वृषा वृषभो भुवत् ॥ २०.४७.१ ॥

我们激励那位因陀罗投入对抗伟大的弗栗多的战斗。他成为了降雨的公牛。

20.47.2

इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
द्युम्नी श्लोकी स सोम्यः ॥ २०.४७.२ ॥

因陀罗是为束缚而设的,最为强大,他被置于迷醉之中。他光辉、有名,属于苏摩。

20.47.3

गिरा वज्रो न संभृतः सबलो अनपच्युतः ।
ववक्ष ऋष्वो अस्तृतः ॥ २०.४७.३ ॥

他由歌声铸成如金刚杵,充满力量,不可摇撼。他高耸而无损,光辉显现。

20.47.4

इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत ॥ २०.४७.४ ॥

吟唱诗歌的人高声赞美因陀罗;以颂歌吟咏的人赞美因陀罗。众声都赞颂了因陀罗。

20.47.5

इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।
इन्द्रो वज्री हिरण्ययः ॥ २०.४७.५ ॥

因陀罗自身与两匹栗色马相连,由言语驾驭。持金刚的金色因陀罗。

20.47.6

इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
वि गोभिरद्रिमैरयत् ॥ २०.४७.६ ॥

因陀罗将太阳升上天空,使人长久得见;他以光线让山(云)裂开散开。

20.47.7

आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
एदं बर्हिः सदो मम ॥ २०.४७.७ ॥

因陀罗啊,来吧,压好的苏摩是为你而备的;饮下这苏摩。坐在我这圣草的座位上。

20.47.8

आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
उप ब्रह्माणि नः शृणु ॥ २०.४७.८ ॥

愿以祷词驾轭的两匹长鬃骏马把你带来,因陀罗啊;请听我们的祈祷。

20.47.9

ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
सुतावन्तो हवामहे ॥ २०.४७.९ ॥

饮苏摩的因陀罗啊,我们作为婆罗门、献苏摩者和压苏摩者,以你为同伴而召唤你。

20.47.10

युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
रोचन्ते रोचना दिवि ॥ २०.४७.१० ॥

他们将绕着静立世界运行的明亮赤红太阳套上车驾;天上的光明闪耀。

20.47.11

युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
शोणा धृष्णू नृवाहसा ॥ २०.४७.११ ॥

他们为他的车驾套上两匹心爱的、有翼的、赤红的、勇敢的、载人的骏马。

20.47.12

केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
समुषद्भिरजायथाः ॥ २०.४७.१२ ॥

凡人啊,你为无知者造光明,为无形者造形体,与曙光一同诞生。

20.47.13

उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ॥ २०.४७.१३ ॥

光线托起那位全知之神——太阳,使所有人都能看见他。

20.47.14

अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।
सूराय विश्वचक्षसे ॥ २०.४७.१४ ॥

那些星星像盗贼一样随夜晚离去,为了那位能看见一切的太阳。

20.47.15

अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु ।
भ्राजन्तो अग्नयो यथा ॥ २०.४७.१५ ॥

他的光线显现了,像闪耀的火焰一样,向人群散开。

20.47.16

तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
विश्वमा भासि रोचन ॥ २०.४७.१६ ॥

太阳啊,你是迅捷的摆渡者,为众人所见,是光明的创造者;光辉者啊,你照亮了一切。

20.47.17

प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः ।
प्रत्यङ्विश्वं स्वर्दृशे ॥ २०.४७.१७ ॥

你面向众神的族群升起,面向人类的族群升起;面向万物,使明亮的天空得以被看见。

20.47.18

येना पावक चक्षसा भुरण्यन्तं जनामनु ।
त्वं वरुण पश्यसि ॥ २०.४७.१८ ॥

光明的净化者啊,你以那只注视人群中奔忙者的眼睛,瓦鲁那啊,你也以那双眼睛看见一切。

20.47.19

वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः ।
पश्यं जन्मानि सूर्य ॥ २०.४७.१९ ॥

太阳啊!你穿越天空,遍布广阔的虚空,以夜晚丈量白昼,注视着一切众生。

20.47.20

सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
शोचिष्केशं विचक्षणम् ॥ २०.४७.२० ॥

太阳神啊!七匹黄绿色的骏马在车上载着你,你的发是火焰,你是明察一切的。

20.47.21

अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
ताभिर्याति स्वयुक्तिभिः ॥ २०.४७.२१ ॥

车之子孙,七匹明亮而净化的骏马,主宰者太阳已将它们驾上;他与这些自行驾车的骏马一同前行。