阿闼婆吠陀 · 颂诗(Sūkta) 20.63
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.63.1
इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ।
यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥ २०.६३.१ ॥
愿我们使这些世界兴盛;愿因陀罗与诸神也如此。愿因陀罗与阿底提亚们一同为我们的祭祀、身体和子嗣做好准备。
20.63.2
आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ।
हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः ॥ २०.६३.२ ॥
愿因陀罗与阿底提亚及摩录多众同在,作我们身体的保护者,正如诸神杀死阿修罗、守护神性而前行之时。
20.63.3
प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ।
अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥ २०.६३.३ ॥
他们以神通将光耀的太阳引向前方,随后环视周围迅疾的自性(svadhā)。愿我们由此获得有益于诸神的力量,并与优秀的英雄之子一同欢乐百个冬季。
20.63.4
य एक इद्विदयते वसु मर्ताय दाशुषे ।
ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥ २०.६३.४ ॥
唯有他一人赐财于施主凡人:那不可抗拒的主宰——因陀罗,确然如此。
20.63.5
कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् ।
कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥ २०.६३.५ ॥
何时他会以足踢开贫穷的凡人,如同踢开一个包袱?何时因陀罗会听闻我们的颂歌,确然如此?
20.63.6
यश्चिद्धि त्वा बहुभ्य आ सुतावाँ आविवासति ।
उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥ २०.६३.६ ॥
凡压榨苏摩者,若比他人更多地侍奉你,他便成为猛烈力量的主宰——因陀罗,确然如此。
20.63.7
य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।
येना हंसि न्यत्त्रिणं तमीमहे ॥ २०.६३.७ ॥
因陀罗啊,饮苏摩最多者,最为强大者!你内心觉醒的那份欢悦,你借之击杀吞噬的敌人,我们所祈求的正是它。
20.63.8
येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् ।
येना समुद्रमाविथा तमीमहे ॥ २०.६३.८ ॥
你以之庇护那驾十马者、行于岩石者、颤抖者、天上之人,又以之护持大海,那力量我们正祈求。
20.63.9
येन सिन्धुं महीरपो रथामिव प्रचोदयः ।
पन्थामृतस्य यातवे तमीमहे ॥ २०.६३.९ ॥
你以之如驱车般推动信度河与大水,开启天则之路供人前行,那力量我们正祈求。