阿闼婆吠陀 · 颂诗(Sūkta) 20.67
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.67.1
वनोति हि सुन्वन् क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः ।
सुन्वान इत्सिषासति सहस्रा वाज्यवृतः ।
सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥ २०.६७.१ ॥
压榨苏摩者必得富人的居所;压榨者确实献祭并驱逐敌人,也驱逐诸神的敌人。压榨者渴求千倍之财,强健而无阻。压榨苏摩者,因陀罗赐予他丰盛的财富,赐予他丰盛的财富。
20.67.2
मो षु वो अस्मदभि तानि पौंस्या सना भूवन् द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः ।
यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम् ।
अस्मासु तन् मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥ २०.६७.२ ॥
诸摩禄多啊,愿你们那些男子气概的力量与古老的光辉不要向我们转来;愿我们的光辉不衰落、不提前凋萎。愿你们奇妙、常新、不朽的呼声世世代代在我们之中;诸摩禄多啊,请在我们之中持守那不可攻克之物,持守不可攻克之物。
20.67.3
अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।
य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥ २०.६७.३ ॥
我敬奉阿耆尼,祭司,慷慨者,富有者,力量之子,生知者,如同有灵感的圣者生知者。那善行祭祀的神,以神圣的高恩施予;随着酥油之焰,以所浇奉的酥油之火而闪耀。
20.67.4
यज्ञैः संमिश्लाः पृषतीभिर्ऋष्टिभिर्यामं छुभ्रासो अञ्जिषु प्रिया उत ।
आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥ २०.६७.४ ॥
与祭祀相融,伴随斑鹿与长矛,在车驾之行中光辉可爱,以饰物装扮,坐于圣草之上。婆罗多之子们,天界之人们,请从净器中饮用苏摩。
20.67.5
आ वक्षि देवामिह विप्र यक्षि चोशन् होतर्नि षदा योनिषु त्रिषु ।
प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृस्णुहि ॥ २०.६७.५ ॥
智者啊,请将诸神引至此处并祭拜他们;祭司啊,怀着渴望坐于三处座位。接受从阿格尼德拉献上的甘美苏摩饮品,饮下它,并渴求你的那一份。
20.67.6
एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः ।
तुभ्यं सुतो मघवन् तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥ २०.६७.६ ॥
看哪,这增益你身体的力量与活力,置于高天你的臂中。大施主啊,这苏摩为你压榨,为你奉上;从婆罗门手中接受它,饮至充足。
20.67.7
यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते ।
अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥ २०.६७.७ ॥
我先前所呼唤的,现在仍呼唤他;那值得呼唤的施予者,其名统治一切。阿特瓦尤们所献的甜美苏摩,啊,财富施予者,请从净器中饮用苏摩,与诸季节同在。