阿闼婆吠陀 · 颂诗(Sūkta) 20.68
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.68.1
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
जुहूमसि द्यविद्यवि ॥ २०.६८.१ ॥
我们日日为求助而呼唤那造作美好形体者,如同呼唤易于挤奶的母牛,供挤奶人取用。
20.68.2
उप नः सवना गहि सोमस्य सोमपाः पिब ।
गोदा इद्रेवतो मदः ॥ २०.६८.२ ॥
来到我们的压榨祭,饮苏摩者;饮用苏摩吧。赐予牛群的富有者——你的欢喜属于我们。
20.68.3
अथा ते अन्तमानां विद्याम सुमतीनाम् ।
मा नो अति ख्य आ गहि ॥ २०.६८.३ ॥
愿我们得到你最亲近的善意。不要越过我们而看;来吧。
20.68.4
परेहि विग्रमस्तृतमिन्द्रं पृछा विपश्चितम् ।
यस्ते सखिभ्य आ वरम् ॥ २०.६८.४ ॥
去吧,问问那智慧而不可战胜的因陀罗,他为朋友带来恩赐。
20.68.5
उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत ।
दधाना इन्द्र इद्दुवः ॥ २०.६८.५ ॥
愿诽谤者谈论我们,但也让他们从别处远远避开,只把虔敬寄托于因陀罗。
20.68.6
उत नः सुभगामरिर्वोचेयुर्दस्म कृष्टयः ।
स्यामेदिन्द्रस्य शर्मणि ॥ २०.६८.६ ॥
并且,啊奇妙者,愿人们为我们宣告福运;愿我们正处于因陀罗的庇护之下。
20.68.7
एमाशुमाशवे भर यज्ञश्रियं नृमादनम् ।
पतयन् मन्दयत्सखम् ॥ २०.६८.७ ॥
为迅捷者带来祭祀的光彩、令人欢喜的苏摩,它滴落而使朋友喜悦。
20.68.8
अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः ।
प्रावो वाजेषु वाजिनम् ॥ २०.६८.८ ॥
百力因陀罗啊,饮了此酒,你成为了阻碍者的击杀者;你在争战中保护了勇士。
20.68.9
तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो ।
धनानामिन्द्र सातये ॥ २०.६८.९ ॥
在争战中勇健的你,百力因陀罗啊,我们增强你的力量,为赢得财富,因陀罗啊。
20.68.10
यो रायोऽवनिर्महान्त्सुपारः सुन्वतः सखा ।
तस्मा इन्द्राय गायत ॥ २०.६८.१० ॥
为那位财富的守护者、伟大、易于渡过、压榨苏摩者的朋友的因陀罗而歌唱。
20.68.11
आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
सखाय स्तोमवाहसः ॥ २०.६८.११ ॥
来吧,在此坐下;向因陀罗高声歌唱,携带赞歌的朋友们。
20.68.12
पुरूतमं पुरूणामीशानं वार्याणाम् ।
इन्द्रं सोमे सचा सुते ॥ २०.६८.१२ ॥
众中最为丰饶、可欲之物的主宰因陀罗,在压榨苏摩时我们一同(颂赞)。