阿闼婆吠陀 · 颂诗(Sūkta) 20.92
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.92.1
अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
सूनुं सत्यस्य सत्पतिम् ॥ २०.९२.१ ॥
以歌声好好赞颂牛主因陀罗,使他知晓:他是真理之子,善人之主。
20.92.2
आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
यत्राभि संनवामहे ॥ २०.९२.२ ॥
赤色的骏马已在这神圣的草座上放开,在那里我们一同躬身礼拜。
20.92.3
इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
यत्सीमुपह्वरे विदत् ॥ २०.९२.३ ॥
牛为执金刚的因陀罗挤出如蜜般的混合饮料,当他在隐秘的洞穴中找到它时。
20.92.4
उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि ।
मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥ २०.९२.४ ॥
当他升向太阳的高处居所时,让我与因陀罗回家;饮了甜美的饮料,让我们在朋友的足迹中相聚,三乘七。
20.92.5
अर्चत प्रार्चत प्रियमेधासो अर्चत ।
अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥ २०.९२.५ ॥
歌颂吧,好好歌颂吧,亲爱的智慧仙人们,歌颂吧;让诸子也歌颂,如同堡垒;勇猛者啊,歌颂吧。
20.92.6
अव स्वराति गर्गरो गोधा परि सनिष्वणत् ।
पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥ २०.९२.६ ॥
蛙在下方鸣叫,蜥蜴在四周作响;黄色的鸟四处啼鸣——为因陀罗高举的神圣祷词。
20.92.7
आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः ।
अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥ २०.९२.७ ॥
当迅捷、易挤、从不枯竭的流水奔涌而来时,请取那不竭的苏摩,供因陀罗饮用。
20.92.8
अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत ।
वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥ २०.९२.८ ॥
无足的因陀罗与无足的阿耆尼;诸神皆欢喜。此处婆楼那最为安居;诸水赞颂他,犹如群牛为小牛齐声哞叫。
20.92.9
सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।
अनुक्षरन्ति काकुदं सूर्यं सुषिरामिव ॥ २०.९२.९ ॥
婆楼那啊,你是善神;你的七河自太阳之巅流下,如同从有孔的器皿中流出。
20.92.10
यो व्यतींरफाणयत्सुयुक्तामुप दाशुषे ।
तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥ २०.९२.१० ॥
为施者将善驾者分别解开的那位——那迅捷的引导者即是此形;获得解脱者与之相似。
20.92.11
अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः ।
भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥ २०.९२.११ ॥
有力的因陀罗确实超越一切敌人而取胜;年轻的因陀罗以歌声将正在烹煮的奥达那远远击碎。
20.92.12
अर्भको न कुमारकोऽधि तिष्ठन्न् अवं रथम् ।
स पक्षन् महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥ २०.९२.१२ ॥
如小童或少年,立于车上,他烹煮水牛与鹿;对父母而言,他具有大智慧与大愿力。
20.92.13
आ तू सुशिप्र दंपते रथं तिष्ठा हिरण्ययम् ।
अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् ॥ २०.९२.१३ ॥
哦,善颚者(Suśipra),家主啊,来吧,站上金车;然后让我们一同乘坐那闪耀的、千足的、赤红的、通往吉祥、无过失的车驾前行。
20.92.14
तं घेमित्था नमस्विन उप स्वराजमासते ।
अर्थं चिदस्य सुधितं यदेतवे आवर्तयन्ति दावने ॥ २०.९२.१४ ॥
如此向他致敬之人,坐于自主之王(因陀罗)身旁;他妥善储存的财富,本应流出,也被转回用于布施。
20.92.15
अनु प्रत्नस्यौकसः प्रियमेधास एषाम् ।
पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥ २०.९२.१५ ॥
循着古老的居所,这些普里亚梅陀(Priyamedha)者,铺撒割断的草,献上利益的供品,遵循先前的祭祀进程而抵达。
20.92.16
यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।
विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥ २०.९२.१६ ॥
那作诸族之王、乘车而行、雷鸣不息、横渡一切军阵、至尊、杀死弗栗多(Vṛtra)的,正是被赞颂的他。
20.92.17
इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि ।
हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥ २०.९२.१७ ॥
哦,普如汉曼(Purūhanman),为求护佑,去装饰那因陀罗吧;他双手承载,雷电被置于他手中——壮丽而伟大,如天上的太阳。
20.92.18
नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् ।
इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥ २०.९२.१८ ॥
无人能以行为达到他——那创造常增之者。如因陀罗一般,以祭祀赞颂那助益一切、灵巧、不可攻破、具勇猛力量的(因陀罗)。
20.92.19
अषाल्हमुग्रं पृतनासु सासहिं यस्मिन् महीरुरुज्रयः ।
सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥ २०.९२.१९ ॥
无人能敌、在战斗中猛烈而得胜者,其中蕴藏着广大伟大的力量。他一降生,牛群便一同哞叫;天与地也齐声欢呼。
20.92.20
यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।
न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥ २०.९२.२० ॥
因陀罗啊,即便为你有一百个天、一百个地,持金刚者啊,千个太阳也不曾与你同生,两界亦然。
20.92.21
आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।
अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥ २०.९२.२१ ॥
你以伟大与雄力充满了一切,公牛啊,最为强大者。慷慨的摩伽梵啊,请在牛群丰饶的牲栏中守护我们;持金刚者啊,以奇妙的护佑。