Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 20.94

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

20.94.1

आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् ।
प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥ २०.९४.१ ॥

愿因陀罗降临,他是自己的主,为了欢愉;他凭本性急速前行,强大无比;以无限、伟大、刚健的力量超越一切力量。

20.94.2

सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ ।
शीभं राजन् सुपथा याह्यर्वाङ्वर्धाम ते पपुसो वृष्ण्यानि ॥ २०.९४.२ ॥

人主啊,你的战车强健,你的两匹马驯服得当;金刚杵已在你手中坚定。国王啊,请快快沿着善道来到我们这里;愿我们增益你这饮了苏摩者的刚健功业。

20.94.3

एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम् ।
प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहन्तु ॥ २०.९४.३ ॥

愿因陀罗的骏马将这位手持金刚、猛烈的人主带到这里;愿猛烈而强大者把这真实威力的公牛带到我们这里,他超越一切力量。愿与他共饮的伙伴们把他带来。

20.94.4

एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुण आ वृषायसे ।
ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥ २०.९४.४ ॥

如此,你在支柱中变得刚健,你是主,是杓的伴侣,同心一意,是力量之柱。请生出力量并将其收聚于自身,如饮者之主为了增长一般。

20.94.5

गमन्न् अस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः ।
त्वमीशिषे सास्मिन्न् आ सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥ २०.९४.५ ॥

请为我们带来财富,因为我赞颂你,赐予吉祥祝福者;请到献苏摩者这里来。你确实掌管一切;请坐在这神圣的吉祥草上;你那不可侵犯的杯子依法已在此处。

20.94.6

पृथक्प्रायन् प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा ।
न ये शेकुर्यज्ञियां नावमारुहमिर्मैव ते न्यविशन्त केपयः ॥ २०.९४.६ ॥

被诸神召唤的先行者各自前进,完成了难以完成的荣耀功业。那些不能登上祭仪之舟的软弱者,便沉没在其中。

20.94.7

एवैवापागपरे सन्तु दूध्योऽश्वा येषां दुर्युग आयुयुज्रे ।
इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥ २०.९४.७ ॥

同样,下方的那些人就让他们如此,他们的懒马被套上了坏的轭。而上方的那些人则在布施之中,那里有许多知识与享受。

20.94.8

गिरींरज्रान् रेजमानामधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत् ।
समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥ २०.९४.८ ॥

他承托着颤抖的山岳与金刚杵;天空轰鸣,搅动了中间的虚空。他将紧密相连的两处居所分开支撑。公牛饮下苏摩,沉醉其中,诵念赞颂。

20.94.9

इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवं छफारुजः ।
अस्मिन्त्सु ते सवने अस्त्वोक्त्यं सुत इष्टौ मघवन् बोध्याभगः ॥ २०.९४.९ ॥

慷慨者啊,我为你持此精工制作的鞭钩,你用它击破那些践踏蹄掌的敌人。愿在这次压榨、这场苏摩祭中,对你的赞颂成立;慷慨者啊,醒来吧,赐予分享的神啊!

20.94.10

गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥ २०.९४.१० ॥

多受呼唤者啊,愿我们借牛越过这敌意的心念,借大麦越过一切饥饿。愿与诸王一同,凭借我们自己的争战,赢得最初的财富。

20.94.11

बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः ।
इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥ २०.९४.११ ॥

愿布利哈斯帕蒂从后方、北方、下方保护我们,抵御恶人。愿因陀罗从前方和中间保护我们。愿这位朋友为他的朋友们赐予财富与庇护。