Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 20.96

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

20.96.1

तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च ।
इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यमिमे सुतासः ॥ २०.९६.१ ॥

因陀罗啊,请饮这猛烈而强大的苏摩;在此把你的两匹栗色马从所有车上解下。愿其他祭主不要离开你而欢喜;这些压榨好的苏摩都是为你而备。

20.96.2

तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयन्ति ।
इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वामिह पाहि सोमम् ॥ २०.९६.२ ॥

这些苏摩是为你压榨的,尚待压榨的也是为你;渴望的颂歌呼唤着你。因陀罗啊,今日接受这次压榨,你洞悉一切,请在此饮用苏摩。

20.96.3

य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति ।
न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥ २०.९६.३ ॥

那个怀着渴望之心、全心全意、渴慕诸神,为他压榨苏摩的人,因陀罗不会从他那里夺走牛群;他只会为他成就值得称赞而美好的事物。

20.96.4

अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान् न सुनोति सोमम् ।
निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः ॥ २०.९६.४ ॥

富有却不为他压榨苏摩的人会变得无名;慷慨的因陀罗使他失去珍宝。憎恶神圣咒语的人,他自己击打他们,无需任何人指使。

20.96.5

अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ ।
आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥ २०.९६.५ ॥

我们渴望马匹、牛群和力量,呼唤你前来;以颂歌装饰你新的恩惠,因陀罗啊,我们为了福祉而呼唤你。

20.96.6

मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात् ।
ग्राहिर्जग्राह यद्येतद्तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥ २०.९६.६ ॥

为了生命与安康,我以祭物使你脱离未知的痨病与王痨。若夺命者(Grāhi)已攫住他,啊因陀罗与阿耆尼,请将他从她手中彻底解救。

20.96.7

यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव ।
तमा हरामि निर्ऋतेरुपस्थादस्पार्शमेनं शतशारदाय ॥ २०.९६.७ ॥

无论他的寿命已经衰竭,或他已远去,或他已被引至死亡之近旁——我将他从尼哩提的怀抱中带回;为他的百个秋天而触碰他。

20.96.8

सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् ।
इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥ २०.९६.८ ॥

以千目、百力、百寿之祭物,我将他带来。如因陀罗引导他度过秋季,愿他带领他越过一切厄运。

20.96.9

शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतमु वसन्तान् ।
शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥ २०.९६.९ ॥

愿你成长,活过一百个秋天、一百个冬天和一百个春天。愿因陀罗、阿耆尼、萨维德里与布里哈斯帕提赐你一百年。以百寿之祭物,我将他带来。

20.96.10

आहार्षमविदं त्वा पुनरागाः पुनर्णवः ।
सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥ २०.९६.१० ॥

我已将你带来,已找到你;你已重新归来,焕然一新。啊全身之人,你的眼睛完整无缺;我已寻获你的全部寿命。

20.96.11

ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः ।
अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥ २०.९६.११ ॥

愿与梵咒相应的罗刹杀者阿耆尼,将此处那在你的胎中、在恶名之胞中躺卧的病魔(amīvā)驱走。

20.96.12

यस्ते गर्भममीवा दुर्णामा योनिमाशये ।
अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत् ॥ २०.९६.१२ ॥

潜伏在你胎中、那恶名之产道里的病患,愿阿耆尼以神圣咒语连同食肉罗刹一并毁灭。

20.96.13

यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् ।
जातं यस्ते जिघांसति तमितो नाशयामसि ॥ २०.९६.१३ ॥

击打你者、飞者与伏者、爬行之物,以及欲杀你所生婴儿者——我们从此处将其消灭。

20.96.14

यस्त ऊरू विहरत्यन्तरा दम्पती शये ।
योनिं यो अन्तरारेल्हि तमितो नाशयामसि ॥ २०.९६.१४ ॥

在你两股之间游走、躺在夫妻之间、舔舐子宫之内者——我们从此处将其消灭。

20.96.15

यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते ।
प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥ २०.९६.१५ ॥

化作你的兄长、丈夫或情人而来与你同寝者,以及欲杀你后代者——我们从此处将其消灭。

20.96.16

यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते ।
प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥ २०.९६.१६ ॥

以睡眠与黑暗迷惑你而躺在你身边者,以及欲杀你后代者——我们从此处将其消灭。

20.96.17

अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।
यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥ २०.९६.१७ ॥

从你的双眼、鼻孔、双耳、下巴,头部的消耗之病、从脑髓、从舌头,我将其从你身上拔除。

20.96.18

ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् ।
यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥ २०.९६.१८ ॥

从你的颈项、乌什尼诃筋、基卡萨骨、脊柱、肩膀和手臂中,我拔除你肩部的消耗之病。

20.96.19

हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् ।
यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥ २०.९६.१९ ॥

从你的心脏、克罗姆纳周围、哈利克什纳、两侧、马塔斯纳、脾脏和肝脏中,我们拔除你的病。

20.96.20

आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि ।
यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥ २०.९६.२० ॥

从你的肠、肛门、瓦尼什图、腹部、腹侧、普拉希和肚脐中,我拔除你的病。

20.96.21

ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भांससो वि वृहामि ते ॥ २०.९६.२१ ॥

从你的大腿、膝盖、脚跟、脚掌、髋部和肌肉中,我拔除你的婆萨德亚之病,即臀部之病。

20.96.22

अमेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः ।
यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥ २०.९६.२२ ॥

从你的无尿(阿梅哈纳)、万喀兰那、毛发、指甲,从你的整个身体中,我拔除那一个、这一个病。

20.96.23

अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।
यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥ २०.९६.२३ ॥

从你的骨头、骨髓、筋腱、动脉中,我拔除你的病,从手、手指、指甲中。

20.96.24

अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि ।
यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥ २०.९६.२४ ॥

存在于你每一肢体、每一根毛发、每一关节以及你皮肤中的那消耗之病(yakṣma),我们以迦叶波的羽扇将其驱散。

20.96.25

अपेहि मनसस्पतेऽप काम परश्चर ।
परो निर्ऋत्या आ चक्ष्व बहुधा जीवतो मनः ॥ २०.९६.२५ ॥

心之主啊,退去吧;欲望啊,远远离开。从远处望向尼离帝(毁灭);愿活人的心意以种种方式长存。