阿闼婆吠陀 · 颂诗(Sūkta) 3.11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.11.1
मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात् ।
ग्राहिर्जग्राह यद्येतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥ ३.११.१ ॥
我以祭品使你得以存活,脱离未知的消耗之病,也脱离王者的消耗之病。若攫取者已抓住他,愿因陀罗与阿耆尼将他从她手中完全解脱。
3.11.2
यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकमेव ।
तमा हरामि निर्ऋतेरुपस्थादस्पार्शमेनं शतशारदाय ॥ ३.११.२ ॥
无论他的寿命已经衰减,或他已远去,或他确实临近死亡——我都将他从尼黎提的怀抱中带回;我为他触碰,以求百个秋天。
3.11.3
सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् ।
इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥ ३.११.३ ॥
以千眼、百力、百寿者的祭品,我把他带来了;正如因陀罗带领他穿越秋季,到达超越一切凶厄的彼岸。
3.11.4
शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतमु वसन्तान् ।
शतं ते इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥ ३.११.४ ॥
愿你活满一百个秋天,并不断成长;一百个冬天,一百个春天。愿因陀罗、阿耆尼、萨维特里与布里哈斯帕蒂为你而在;我以百寿的祭品将他带来。
3.11.5
प्र विशतं प्राणापानावनड्वाहाविव व्रजम् ।
व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम् ॥ ३.११.५ ॥
愿入息与出息进入他体内,如两头役牛进入圈栏;愿其他死亡各自远离——那些被称为百的其他者。
3.11.6
इहैव स्तं प्राणापानौ माप गातमितो युवम् ।
शरीरमस्याङ्गानि जरसे वहतं पुनः ॥ ३.११.६ ॥
留在这里吧,入息与出息;不要离开此地,你们二者。将他的身体与肢体再次承载,直至衰老。
3.11.7
जरायै त्वा परि ददामि जरायै नि धुवामि त्वा ।
जरा त्वा भद्रा नेष्ट व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम् ॥ ३.११.७ ॥
我将你交付给衰老;为了衰老,我摇动你。愿吉祥的衰老引导你;愿其他死亡远去——人们称之为百种他者的那些。
3.11.8
अभि त्वा जरिमाहित गामुक्षणमिव रज्ज्वा ।
यस्त्वा मृत्युरभ्यधत्त जायमानं सुपाशया ।
तं ते सत्यस्य हस्ताभ्यामुदमुञ्चद्बृहस्पतिः ॥ ३.११.८ ॥
衰老已经加在你身上,如同用绳索缚住牛。那在你出生时便以善套套住你的死亡——布利哈斯帕蒂以真理的双手将你从中解脱。