阿闼婆吠陀 · 颂诗(Sūkta) 3.12
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.12.1
इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतमुक्षमाणा ।
तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा उप सं चरेम ॥ ३.१२.१ ॥
就在此处,我立起这座坚固的屋舍,它安稳矗立,流淌酥油。啊,屋舍,愿我们与所有勇士、良善的勇士、无损的勇士一同亲近你而居。
3.12.2
इहैव ध्रुवा प्रति तिष्ठ शालेऽश्वावती गोमती सूनृतावती ।
ऊर्जस्वती घृतवती पयस्वत्युच्छ्रयस्व महते सौभगाय ॥ ३.१२.२ ॥
就在此处,啊屋舍,坚定矗立,富有马匹、富有牛群、富有真实的甘美、富有力量、富有酥油、富有乳汁。为了大福祉而高高升起吧。
3.12.3
धरुण्यसि शाले बृहच्छन्दाः पूतिधान्या ।
आ त्वा वत्सो गमेदा कुमार आ धेनवः सायमास्पन्दमानाः ॥ ३.१२.३ ॥
你是承托者,啊屋舍,韵律宏大,储存着纯净的谷物。愿小牛来到你这里,愿孩童来到你这里,愿傍晚时奔跑而来的乳牛也来到你这里。
3.12.4
इमां शालां सविता वायुरिन्द्रो बृहस्पतिर्नि मिनोतु प्रजानन् ।
उक्षन्तूद्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु ॥ ३.१२.४ ॥
愿萨维特、风神、因陀罗与梵主善知此理,建立此屋舍。愿摩如多诸神以乳房之水与酥油洒淋它;愿国王薄伽为我们扩展耕作。
3.12.5
मानस्य पत्नि शरणा स्योना देवी देवेभिर्निमितास्यग्रे ।
तृणं वसाना सुमना असस्त्वमथास्मभ्यं सहवीरं रयिं दाः ॥ ३.१२.५ ॥
啊,人之妻,庇护者,令人愉悦的女神,你起初便已由诸神所建。以草为衣,心怀善意地存在吧;然后赐予我们与勇士相伴的财富。
3.12.6
ऋतेन स्थूणामधि रोह वंशोग्रो विराजन्न् अप वृङ्क्ष्व शत्रून् ।
मा ते रिषन्न् उपसत्तारो गृहाणां शाले शतं जीवेम शरदः सर्ववीराः ॥ ३.१२.६ ॥
以真理攀上柱子吧,梁脊啊;威猛而光耀,驱逐敌人。愿那些坐在房屋近旁的人不伤害你。啊,沙拉,愿我们与所有英雄之子一同度过百个秋天。
3.12.7
एमां कुमारस्तरुण आ वत्सो जगता सह ।
एमां परिस्रुतः कुम्भ आ दध्नः कलशैरगुः ॥ ३.१२.७ ॥
这位年轻的男孩和幼犊与行走的母牛一同来到这里。满溢的水罐与盛满凝乳的器皿也来到这里。
3.12.8
पूर्णं नारि प्र भर कुम्भमेतं घृतस्य धाराममृतेन संभृताम् ।
इमां पातॄन् अमृतेन समङ्ग्धीष्टापूर्तमभि रक्षात्येनाम् ॥ ३.१२.८ ॥
啊,女子,把这满满的水罐拿来,那充满甘露的酥油之流。用不死为这家中的饮者涂油;愿祭祀与布施的功德保护她。
3.12.9
इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः ।
गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥ ३.१२.९ ॥
这些水,无消耗之病,又能消灭消耗之病,我把它们带来。与不死和火一同,我在房屋近旁坐下。