阿闼婆吠陀 · 颂诗(Sūkta) 3.13
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.13.1
यददः संप्रयतीरहावनदता हते ।
तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥ ३.१३.१ ॥
当那些奔流的水流被击打释放时一同咆哮,因此你们名为河流;这便是你们的名字,诸悉陀。
3.13.2
यत्प्रेषिता वरुणेनाच्छीभं समवल्गत ।
तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु ष्ठन ॥ ३.१३.२ ॥
当你们受婆楼那遣送而笔直迅疾地一同奔涌时,流动中的你们被因陀罗所获;因此你们是水(阿波),此后稳立于后。
3.13.3
अपकामं स्यन्दमाना अवीवरत वो हि कम् ।
इन्द्रो वः शक्तिभिर्देवीस्तस्माद्वार्नाम वो हितम् ॥ ३.१३.३ ॥
你们随意流动,确实覆盖了安乐;诸女神啊,因陀罗以其神力持护你们;因此你们的名字是“婆尔”(水),这是你们所珍爱的。
3.13.4
एकः वो देवोऽप्यतिष्ठत्स्यन्दमाना यथावशम् ।
उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥ ३.१३.४ ॥
当你们随意流动时,有一位神立于你们之上;诸大者啊,你们升腾而起;因此你们被称为“乌达迦”(水)。
3.13.5
आपो भद्रा घृतमिदाप आसन्न् अग्नीषोमौ बिभ्रत्याप इत्ताः ।
तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसा गमेत् ॥ ३.१३.५ ॥
吉祥的水如同酥油;水确实承载着阿耆尼与苏摩,它们便是水;调和蜂蜜者的浓烈汁液最为令人欢喜;愿它与气息和光辉一同来到我身边。
3.13.6
आदित्पश्याम्युत वा शृणोम्या मा घोषो गच्छति वाङ्मासाम् ।
मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥ ३.१३.६ ॥
那时我确实看见、听见;她们声音的回响传到我这里;分享不死之味,我想,金色的水啊,当你们不能令我满足时。
3.13.7
इदं व आपो हृदयमयं वत्स ऋतावरीः ।
इहेत्थमेत शक्वरीर्यत्रेदं वेशयामि वः ॥ ३.१३.७ ॥
諸水啊,這是你們的心;這是小牛。充滿天則(ṛta)的諸水啊,就這樣來到這裡吧,強大的諸水啊,我讓你們進入這裡。