阿闼婆吠陀 · 颂诗(Sūkta) 3.17
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.17.1
सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् ।
धीरा देवेषु सुम्नयौ ॥ ३.१७.१ ॥
智者套上犁具,将轭分开铺展;坚定之人在诸神之中祈求恩惠。
3.17.2
युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम् ।
विराजः श्नुष्टिः सभरा असन् नो नेदीय इत्सृण्यः पक्वमा यवन् ॥ ३.१७.२ ॥
套上犁具,展开轭具;在已耕的田地里在此播种。愿我们得到光辉而丰饶的收成,镰刀近旁即是成熟的谷物。
3.17.3
लाङ्गलं पवीरवत्सुशीमं सोमसत्सरु ।
उदिद्वपतु गामविं प्रस्थावद्रथवाहनं पीबरीं च प्रफर्व्यम् ॥ ३.१७.३ ॥
愿这尖锐、装配妥当、如苏摩般充盈的犁升起,播种牛与羊;愿它牵引车辆,粗壮而宽大。
3.17.4
इन्द्रः सीतां नि गृह्णातु तां पूषाभि रक्षतु ।
सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥ ३.१७.४ ॥
愿因陀罗牢牢掌握犁沟,愿普善守护它;愿她富含乳汁,年复一年为我们挤出乳来。
3.17.5
शुनं सुफाला वि तुदन्तु भूमिं शुनं कीनाशा अनु यन्तु वाहान् ।
शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तमस्मै ॥ ३.१७.५ ॥
愿良好的犁刃划开大地,愿收割者欢欣地跟随牛行。愿因祭品而喜悦的舒那西拉为他使草木结实丰硕。
3.17.6
शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् ।
शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥ ३.१७.६ ॥
愿牛得福,愿人得福;愿犁在福中耕作。愿皮绳在福中系紧,愿鞭子在福中扬起驱赶。
3.17.7
शुनासीरेह स्म मे जुषेथाम् ।
यद्दिवि चक्रथुः पयस्तेनेमामुप सिञ्चतम् ॥ ३.१७.७ ॥
啊,舒那什拉,请在此接受我的敬礼。以你们在天上所造的乳汁,洒向这片大地吧。
3.17.8
सीते वन्दामहे त्वार्वाची सुभगे भव ।
यथा नः सुमना असो यथा नः सुफला भुवः ॥ ३.१७.८ ॥
啊,悉多,我们礼敬你。请转向我们,成为吉祥者,使你对我们心怀善意,并为我们结出果实。
3.17.9
घृतेन सीता मधुना समक्ता विश्वैर्देवैरनुमता मरुद्भिः ।
सा नः सीते पयसाभ्याववृत्स्वोर्जस्वती घृतवत्पिन्वमाना ॥ ३.१७.९ ॥
悉多以酥和蜜涂抹,为一切天神与风神所认可——啊,悉多,请带着乳汁转向我们;充满汁液、富含酥油,愿你丰盈增长。