Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 3.18

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.18.1

इमां खनाम्योषधिं वीरुधां बलवत्तमाम् ।
यया सपत्नीं बाधते यया संविन्दते पतिम् ॥ ३.१८.१ ॥

我挖掘这株最强大的藤草药,妻子借它折磨她的情敌,也借它得到丈夫。

3.18.2

उत्तानपर्णे सुभगे देवजूते सहस्वति ।
सपत्नीं मे परा णुद पतिं मे केवलं कृधि ॥ ३.१८.२ ॥

啊,叶子朝上的、吉祥的、被天神所驱使的、有力的草药,把我的情敌远远推开;让我的丈夫只属于我一人。

3.18.3

नहि ते नाम जग्राह नो अस्मिन् रमसे पतौ ।
परामेव परावतं सपत्नीं गमयामसि ॥ ३.१८.३ ॥

她没有说出你的名字,你也不在这位丈夫身上欢喜;我们把情敌送到遥远又遥远的地方去。

3.18.4

उत्तराहमुत्तर उत्तरेदुत्तराभ्यः ।
अधः सपत्नी या ममाधरा साधराभ्यः ॥ ३.१८.४ ॥

我更高,更高更高,高于那些高者;我的情敌低,低于那些低者。

3.18.5

अहमस्मि सहमानाथो त्वमसि सासहिः ।
उभे सहस्वती भूत्वा सपत्नीं मे सहावहै ॥ ३.१८.५ ॥

我是得胜者,你也是征服者;我们两人都变得强大,一起战胜我的情敌吧。

3.18.6

अभि तेऽधां सहमानामुप तेऽधां सहीयसीम् ।
मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ॥ ३.१८.६ ॥

为你,我将那位得胜者摆在前面;在你身边,我安放那更强大的。愿你的心追随我奔跑,如母牛追随小牛,如水沿着路奔流。