Vedyatra वेदयात्रा
検索

アタルヴァ・ヴェーダ · スークタ 3.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

3.2.1

अग्निर्नो दूतः प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् ।
स चित्तानि मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥ ३.२.१ ॥

アグニよ、我らの使者として戻れ。賢き者として、我らに向けられた呪詛と敵意を焼き返せ。敵の心を惑わせ、彼らを手なき者とせよ、ジャータヴェーダスよ。

3.2.2

अयमग्निरमूमुहद्यानि चित्तानि वो हृदि ।
वि वो धमत्वोकसः प्र वो धमतु सर्वतः ॥ ३.२.२ ॥

このアグニは、汝らの心の中の思いを惑わせた。彼が汝らを住居から散らし、四方から吹き払わんことを。

3.2.3

इन्द्र चित्तानि मोहयन्न् अर्वाङाकूत्या चर ।
अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥ ३.२.३ ॥

インドラよ、心を惑わせつつ、意志をもって我らの方へ来たれ。アグニと風の激しい力で、彼らを散らし滅ぼせ。

3.2.4

व्याकूतय एषामिताथो चित्तानि मुह्यत ।
अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥ ३.२.४ ॥

彼らの企ては散り、心は惑わされよ。今日彼らの心にあるものを、彼らから追い払え。

3.2.5

अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि ।
अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून् ॥ ३.२.५ ॥

彼らの心を逆さに惑わせ、彼らの四肢を捕らえよ。来たれ、アプヴァよ。進み出て、炎で彼らの心を焼き尽くせ。敵を捕らえ、闇で敵対者を刺し貫け。

3.2.6

असौ या सेना मरुतः परेषामस्मान् ऐत्यभ्योजसा स्पर्धमाना ।
तां विध्यत तमसापव्रतेन यथैषामन्यो अन्यं न जानात् ॥ ३.२.६ ॥

マルトたちよ、力をもって我らに向かい争いつつ来るあの敵の軍勢を、闇と非法の誓願で貫け。彼らのうち一人が他の者を見分けられぬように。