Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 3.25

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.25.1

उत्तुदस्त्वोत्तुदतु मा धृथाः शयने स्वे ।
इषुः कामस्य या भीमा तया विध्यामि त्वा हृदि ॥ ३.२५.१ ॥

刺者便刺吧,你不要留在自己的床上。以欲望那可怕的箭,我在心中射穿你。

3.25.2

आधीपर्णां कामशल्यामिषुं संकल्पकुल्मलाम् ।
तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि ॥ ३.२५.२ ॥

将那带羽、以欲为镞、以决心为尾端的箭好好拉弯,愿爱神在你的心中射穿你。

3.25.3

या प्लीहानं शोषयति कामस्येषुः सुसंनता ।
प्राचीनपक्षा व्योषा तया विध्यामि त्वा हृदि ॥ ३.२५.३ ॥

以那使脾脏枯竭的欲望之箭,弯得很好、羽毛朝前、灼热,我在心中射穿你。

3.25.4

शुचा विद्धा व्योषया शुष्कास्याभि सर्प मा ।
मृदुर्निमन्युः केवली प्रियवादिन्यनुव्रता ॥ ३.२५.४ ॥

被火热之箭所刺伤的悲痛者,口中干渴,向我爬来吧——温顺、无怒、唯属于我、言语甜美、顺从。

3.25.5

आजामि त्वाजन्या परि मातुरथो पितुः ।
यथा मम क्रतावसो मम चित्तमुपायसि ॥ ३.२५.५ ॥

我以吸引之咒将你拉来,也从父母身边将你环绕,使你处于我的意愿之中,并靠近我的心意。

3.25.6

व्यस्यै मित्रावरुणौ हृदश्चित्तान्यस्यतम् ।
अथैनामक्रतुं कृत्वा ममैव कृणुतं वशे ॥ ३.२५.६ ॥

米特拉与伐楼那啊,为了她,请抛开她心中的思虑;然后使她失去判断,只让她处于我的掌控之下。