阿闼婆吠陀 · 颂诗(Sūkta) 3.3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.3.1
अचिक्रदत्स्वपा इह भुवदग्ने व्यचस्व रोदसी उरूची ।
युञ्जन्तु त्वा मरुतो विश्ववेदस आमुं नय नमसा रातहव्यम् ॥ ३.३.१ ॥
阿耆尼啊,你巧妙地降临于此,呼唤起来。请广阔地展开那两个宽广的世界,天与地。愿全知的摩录多们套上你;以敬礼,将那奉献供物者引向他。
3.3.2
दूरे चित्सन्तमरुषास इन्द्रमा च्यावयन्तु सख्याय विप्रम् ।
यद्गायत्रीं बृहतीमर्कमस्मै सौत्रामण्या दधृषन्त देवाः ॥ ३.३.२ ॥
纵然遥远,愿明亮的骏马为了友谊把因陀罗这位灵感之人带来此处,当诸神以伽耶特里与布里哈蒂的赞歌和萨乌特拉玛尼祭仪为他勇敢地行动之时。
3.3.3
अद्भ्यस्त्वा राज वरुणो ह्वयतु सोमस्त्वा ह्वयतु पर्वतेभ्यः ।
इन्द्रस्त्वा ह्वयतु विड्भ्य आभ्यः श्येनो भूत्वा विश आ पतेमाः ॥ ३.३.३ ॥
啊,君王,愿伐楼那从水中召唤你,苏摩从山中召唤你;愿因陀罗为这些民众召唤你,愿这些民众化为鹰隼飞向你。
3.3.4
श्येनो हव्यं नयत्वा परस्मादन्यक्षेत्रे अपरुद्धं चरन्तम् ।
अश्विना पन्थां कृणुतां सुगं त इमं सजाता अभिसंविशध्वम् ॥ ३.३.४ ॥
愿鹰隼从远方带来那在他人田地中被阻、流浪的供物。愿双阿什文为你开辟平坦的道路;诸同族啊,一同进入这个人。
3.3.5
ह्वयन्तु त्वा प्रतिजनाः प्रति मित्रा अवृषत ।
इन्द्राग्नी विश्वे देवास्ते विशि क्षेममदीधरन् ॥ ३.३.५ ॥
愿每个民族都呼唤你;朋友们已对你欢喜。愿因陀罗-阿耆尼与一切毗溼婆提神在你的民众中确立安康。
3.3.6
यस्ते हवं विवदत्सजातो यश्च निष्ट्यः ।
अपाञ्चमिन्द्र तं कृत्वाथेममिहाव गमय ॥ ३.३.६ ॥
凡与你的呼唤相争者,无论是同生的兄弟还是异族之人,因陀罗啊,使他倒退;并将此(我方之人)带回此处。