Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 3.31

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.31.1

वि देवा जरसावृतन् वि त्वमग्ने अरात्या ।
व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥ ३.३१.१ ॥

诸神被衰老所包围;阿耆尼啊,你使他们摆脱了吝啬。我与一切罪恶和消耗之病分离,获得圆满的寿命。

3.31.2

व्यार्त्या पवमानो वि शक्रः पापकृत्यया ।
व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥ ३.३१.२ ॥

净化者使我摆脱痛苦;帝释使我摆脱恶行的巫术。我与一切罪恶和消耗之病分离,获得圆满的寿命。

3.31.3

वि ग्राम्याः पशव आरण्यैर्व्यापस्तृष्णयासरन् ।
व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥ ३.३१.३ ॥

家畜与野兽分离;水因干渴而流走。我与一切罪恶和消耗之病分离,获得圆满的寿命。

3.31.4

वी मे द्यावापृथिवी इतो वि पन्थानो दिशंदिशम् ।
व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥ ३.३१.४ ॥

愿天与地为我从此分开;愿道路各向各方分岔。我与一切罪恶和消耗之病分离,获得圆满的寿命。

3.31.5

त्वष्टा दुहित्रे वहतुं युनक्तीतीदं विश्वं भुवनं वि याति ।
व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥ ३.३१.५ ॥

特瓦什特为女儿套好婚礼的车队;如此,整个世界各自分开运行。我与一切罪恶和消耗之病分离,获得圆满的寿命。

3.31.6

अग्निः प्राणान्त्सं दधाति चन्द्रः प्राणेन संहितः ।
व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥ ३.३१.६ ॥

阿耆尼聚合诸气息;月亮与气息相连。我与一切罪恶和消耗之病分离,获得圆满的寿命。

3.31.7

प्राणेन विश्वतोवीर्यं देवाः सूर्यं समैरयन् ।
व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥ ३.३१.७ ॥

借生气,诸神使遍处有力的太阳运转。今日我远离一切罪恶与消耗之病,与长寿同在。

3.31.8

आयुष्मतामायुष्कृतां प्राणेन जीव मा मृथाः ।
व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥ ३.३१.८ ॥

与长寿者、增益寿命者同在,借生气而活,不要死。今日我远离一切罪恶与消耗之病,与长寿同在。

3.31.9

प्राणेन प्राणतां प्राणेहैव भव मा मृथाः ।
व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥ ३.३१.९ ॥

借有生气者的生气,就在此处以生气存在,不要死。今日我远离一切罪恶与消耗之病,与长寿同在。

3.31.10

उदायुषा समायुषोदोषधीनां रसेन ।
व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥ ३.३१.१० ॥

以寿命而起,与寿命相合,以草药之汁而起。今日我远离一切罪恶与消耗之病,与长寿同在。

3.31.11

आ पर्जन्यस्य वृष्ट्योदस्थामामृता वयम् ।
व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥ ३.३१.११ ॥

借帕尔詹亚的雨水,我们不死地起身。今日我远离一切罪恶与消耗之病,与长寿同在。