Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 3.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.6.1

पुमान् पुंसः परिजातोऽश्वत्थः खदिरादधि ।
स हन्तु शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥ ३.६.१ ॥

由男子所生的男子,由卡迪罗树所生的阿施婆它——愿它击杀我所憎恨的、也憎恨我的那些我的敌人。

3.6.2

तान् अश्वत्थ निः शृणीहि शत्रून् वैबाधदोधतः ।
इन्द्रेण वृत्रघ्ना मेदी मित्रेण वरुणेन च ॥ ३.६.२ ॥

哦阿施婆它,将那些压迫和震撼我的敌人碾碎驱逐出去——同因陀罗(斩除弗栗多者)、梅地、密特拉和伐楼那一道。

3.6.3

यथाश्वत्थ निरभनोऽन्तर्महत्यर्णवे ।
एवा तान्त्सर्वान् निर्भङ्ग्धि यान् अहं द्वेष्मि ये च माम् ॥ ३.६.३ ॥

如同你,哦阿施婆它,在大海之中被折断一般,也请将我所憎恨的、憎恨我的所有人彻底折断。

3.6.4

यः सहमानश्चरसि सासहान इव ऋषभः ।
तेनाश्वत्थ त्वया वयं सपत्नान्त्सहिषीमहि ॥ ३.६.४ ॥

哦阿施婆它,你如公牛般忍耐而胜利地行走,愿我们借你的那份力量,战胜我们的敌手。

3.6.5

सिनात्वेनान् निर्ऋतिर्मृत्योः पाशैरमोक्यैः ।
अश्वत्थ शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥ ३.६.५ ॥

愿尼哩缇以不可解脱的死亡之索缚住他们。哦阿施婆它,缚住我的那些敌人——我所憎恨的、憎恨我的人。

3.6.6

यथाश्वत्थ वानस्पत्यान् आरोहन् कृणुषेऽधरान् ।
एवा मे शत्रोर्मूर्धानं विष्वग्भिन्द्धि सहस्व च ॥ ३.६.६ ॥

如同你,哦阿施婆它,攀上其他树木使它们低垂,也请从四面八方劈开我敌人的头颅,并战胜他。

3.6.7

तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात् ।
न वैबाधप्रणुत्तानां पुनरस्ति निवर्तनम् ॥ ३.६.७ ॥

愿他们向下漂去,如同断绳之舟。被苦难驱逐者,再无归返之路。

3.6.8

प्रैणान् नुदे मनसा प्र चित्तेनोत ब्रह्मणा ।
प्रैणान् वृक्षस्य शाखयाश्वत्थस्य नुदामहे ॥ ३.६.८ ॥

我以心念驱逐他们,以意志驱逐他们,也以梵咒驱逐他们。我们以菩提树(阿濕婆它树)的枝条驱逐他们。