Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 4.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.1.1

ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।
स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥ ४.१.१ ॥

梵在起初从边界中最先诞生;韦那显露了光辉的太阳。他展开了这世界的深处与近处;他为你们分开了有之源与无之源。

4.1.2

इयं पित्र्या राष्ट्र्येत्वग्रे प्रथमाय जनुषे भुवनेष्ठाः ।
तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्तु प्रथमाय धास्यवे ॥ ४.१.२ ॥

此父辈与王权之物向前而来;为那居于诸世界中的初生者,愿他拥有这光辉弯曲的器皿;为我,愿他们为那将首先被安置者烹煮这热力。

4.1.3

प्र यो जज्ञे विद्वान् अस्य बन्धुर्विश्वा देवानां जनिमा विवक्ति ।
ब्रह्म ब्रह्मण उज्जभार मध्यान् नीचैरुच्चैः स्वधा अभि प्र तस्थौ ॥ ४.१.३ ॥

作为其亲族而诞生的智者宣说诸神的一切诞生。梵从中间举起梵;下方与上方的自持之力都朝向它而立。

4.1.4

स हि विदः स पृथिव्या ऋतस्था मही क्षेमं रोदसी अस्कभायत् ।
महान् मही अस्कभायद्वि जातो द्यां सद्म पार्थिवं च रजः ॥ ४.१.४ ॥

他确实知晓那些在大地上安于宇宙秩序者;他安稳地支撑着伟大的两界——天与地。伟大者支撑了伟大者;他显现而生,固定了天空、地上的居所与空界。

4.1.5

स बुध्न्यादाष्ट्र जनुषोऽभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट् ।
अहर्यच्छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः ॥ ४.१.५ ॥

他从深处、从生的边际向前显现;布里哈斯帕蒂是其神祇,是他的至尊之主。他带来了明亮的光辉,之后从光中诞生;愿光辉的智慧之人各自安住其中。

4.1.6

नूनं तदस्य काव्यो हिनोति महो देवस्य पूर्व्यस्य धाम ।
एष जज्ञे बहुभिः साकमित्था पूर्वे अर्धे विषिते ससन् नु ॥ ४.१.६ ॥

那位智者确实推动着伟大神明古老的居所。他如此与众人一同诞生,居于先前那遥远而封闭的半边。

4.1.7

योऽथर्वाणं पितरं देवबन्धुं बृहस्पतिं नमसाव च गछात् ।
त्वं विश्वेषां जनिता यथासः कविर्देवो न दभायत्स्वधावान् ॥ ४.१.७ ॥

愿以敬礼前往阿闼婆(父)与众神之亲族勃里哈斯帕蒂之处者到达。你为万物之生父,如智者与神明,自具权能,永不受欺。