Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 4.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.11.1

अनड्वान् दाधार पृथिवीमुत द्यामनड्वान् दाधारोर्वन्तरिक्षम् ।
अनड्वान् दाधार प्रदिशः षडुर्वीरनड्वान् विश्वं भुवनमा विवेश ॥ ४.११.१ ॥

公牛托住了大地,也托住了天空;公牛托住了广阔的虚空。公牛托住了六个广阔的方位;公牛进入了整个世界。

4.11.2

अनड्वान् इन्द्रः स पशुभ्यो वि चष्टे त्रयां छक्रो वि मिमीते अध्वनः ।
भूतं भविष्यद्भुवना दुहानः सर्वा देवानां चरति व्रतानि ॥ ४.११.२ ॥

那头公牛就是因陀罗;他为众生而观望;这位大能者丈量三条道路。他挤取过去、未来与诸世界,遍行诸神的一切圣誓。

4.11.3

इन्द्रो जातो मनुष्येष्वन्तर्घर्मस्तप्तश्चरति शोशुचानः ।
सुप्रजाः सन्त्स उदारे न सर्षद्यो नाश्नीयादनडुहो विजानन् ॥ ४.११.३ ॥

生于人间的因陀罗是内里炽热的圣热饮;他闪耀着灼热前行。拥有良好子嗣者不赴慷慨的祭祀——那知晓公牛之份却不食用的人。

4.11.4

अनड्वान् दुहे सुकृतस्य लोक ऐनं प्याययति पवमानः पुरस्तात् ।
पर्जन्यो धारा मरुत ऊधो अस्य यज्ञः पयो दक्षिणा दोहो अस्य ॥ ४.११.४ ॥

公牛在善行之界产乳;净化者(波婆摩那)从前方使它欢悦。帕尔詹尼亚是它的水流,诸摩录多是它的乳房;祭祀是它的乳,供施是挤乳。

4.11.5

यस्य नेशे यज्ञपतिर्न यज्ञो नास्य दातेशे न प्रतिग्रहीता ।
यो विश्वजिद्विश्वभृद्विश्वकर्मा घर्मं नो ब्रूत यतमश्चतुष्पात् ॥ ४.११.५ ॥

在谁的统治下既无祭主,也无祭祀、无施者、无受者?你是一切的征服者、一切的支持者、一切的创造者,请告诉我们圣热:哪一位是四足者?

4.11.6

येन देवाः स्वरारुरुहुर्हित्वा शरीरममृतस्य नाभिम् ।
तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन तपसा यशस्यवः ॥ ४.११.६ ॥

诸神舍弃肉身、攀升至不死之中心天界所走的那条路,愿我们借热祭之愿与苦行,追求荣耀,走向善行之界。

4.11.7

इन्द्रो रूपेणाग्निर्वहेन प्रजापतिः परमेष्ठी विराट् ।
विश्वानरे अक्रमत वैश्वानरे अक्रमतानडुह्यक्रमत ।
सोऽदृंहयत सोऽधारयत ॥ ४.११.७ ॥

因陀罗以形相前行,阿耆尼以承载前行,至上而光耀的生主前行;他在毗湿婆那罗中前行,在吠湿婆那罗中前行,在公牛中前行。他使之坚固,他使之承载。

4.11.8

मध्यमेतदनडुहो यत्रैष वह आहितः ।
एतावदस्य प्राचीनं यावान् प्रत्यङ्समाहितः ॥ ४.११.८ ॥

此即牛之中部,在此安置这根辕木。其前部延伸多远,其后部也同样安置多远。

4.11.9

यो वेदानडुहो दोहान्त्सप्तानुपदस्वतः ।
प्रजां च लोकं चाप्नोति तथा सप्तऋषयो विदुः ॥ ४.११.९ ॥

知晓牛之七种未经踏践之挤乳者,便得子嗣与世界;七仙亦如此知晓。

4.11.10

पद्भिः सेदिमवक्रामन्न् इरां जङ्घाभिरुत्खिदन् ।
श्रमेणानड्वान् कीलालं कीनाशश्चाभि गच्छतः ॥ ४.११.१० ॥

以足前行,以股掘土,牛以劳苦走向水,耕者亦走向水。

4.11.11

द्वादश वा एता रात्रीर्व्रत्या आहुः प्रजापतेः ।
तत्रोप ब्रह्म यो वेद तद्वा अनडुहो व्रतम् ॥ ४.११.११ ॥

此十二夜被称为生主的誓愿之夜;在其中亲近梵的人,方真正知晓牛之誓愿。

4.11.12

दुहे सायं दुहे प्रातर्दुहे मध्यंदिनं परि ।
दोहा ये अस्य संयन्ति तान् विद्मानुपदस्वतः ॥ ४.११.१२ ॥

傍晚挤奶,清晨挤奶,正午也挤奶;凡是汇集于此的乳汁,我们都知道。