Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 4.13

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.13.1

उत देवा अवहितं देवा उन्नयथा पुनः ।
उतागश्चक्रुषं देवा देवा जीवयथा पुनः ॥ ४.१३.१ ॥

诸神啊,你们将倒下的人再次扶起;诸神啊,你们将犯错的人再次救活。

4.13.2

द्वाविमौ वातौ वात आ सिन्धोरा परावतः ।
दक्षं ते अन्य आवातु व्यन्यो वातु यद्रपः ॥ ४.१३.२ ॥

这是两股风:一股从海洋吹来,另一股从远方吹来。愿一股为你带来力量,愿另一股吹走所有的污秽。

4.13.3

आ वात वाहि भेषजं वि वात वाहि यद्रपः ।
त्वं हि विश्वभेषज देवानां दूत ईयसे ॥ ४.१३.३ ॥

风啊,把药带来;风啊,吹走所有的污秽。因为你是万病之药,你作为诸神的使者前行。

4.13.4

त्रायन्तामिमं देवास्त्रायन्तां मरुतां गणाः ।
त्रायन्तां विश्वा भूतानि यथायमरपा असत् ॥ ४.१३.४ ॥

愿诸神保护此人;愿摩嚕多的众神保护他;愿一切众生保护他,使此人得以无染。

4.13.5

आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः ।
दक्षं त उग्रमाभारिषं परा यक्ष्मं सुवामि ते ॥ ४.१३.५ ॥

我带着平安的祝福,也带着安全的祝福来到你身边。为你带来了猛烈的力量;我从你身上驱赶消耗性的疾病。

4.13.6

अयं मे हस्तो भगवान् अयं मे भगवत्तरः ।
अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥ ४.१३.६ ॥

我的这只手是有福的;我的这只手更加有福。我的这只手能治愈一切;它的触摸是吉祥的。

4.13.7

हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी ।
अनामयित्नुभ्यां हस्ताभ्यां ताभ्यां त्वाभि मृशामसि ॥ ४.१३.७ ॥

以十枝的双手,以走在言语之前的舌头,以那带来康复的双手,我们触摸你。