阿闼婆吠陀 · 颂诗(Sūkta) 4.15
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.15.1
समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु ।
महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥ ४.१५.१ ॥
愿充满水汽的方位一同升起;愿被风驱动的云一同前行。以大公牛的吼声,愿充满水汽而咆哮的水泽润泽大地。
4.15.2
समीक्षयन्तु तविषाः सुदानवोऽपां रसा ओषधीभिः सचन्ताम् ।
वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तामोषधयो विश्वरूपाः ॥ ४.१५.२ ॥
愿强大而慷慨的神明垂视;愿水之精华与草药相结合。愿雨水之流滋养大地;愿各种形态的草药各自生长。
4.15.3
समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम् ।
वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः ॥ ४.१५.३ ॥
请看歌唱者之云;愿水流之势各自涌起。愿雨水之流滋养大地;愿各种形态的藤蔓各自生长。
4.15.4
गणास्त्वोप गायन्तु मारुताः पर्जन्य घोषिणः पृथक् ।
सर्गा वर्षस्य वर्षतो वर्षन्तु पृथिवीमनु ॥ ४.१५.४ ॥
愿摩噜多之众在你旁边歌唱,哦,雷鸣的帕尔賈尼亚,各自分开。愿降雨的雨流倾泻于大地之上。
4.15.5
उदीरयत मरुतः समुद्रतस्त्वेषो अर्को नभ उत्पातयाथ ।
महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥ ४.१५.५ ॥
哦,摩噜多,从海洋中激起明亮的闪电,将充满水汽的云高高扬起。以大公牛的吼声,愿充满水汽而咆哮的水泽润泽大地。
4.15.6
अभि क्रन्द स्तनयार्दयोदधिं भूमिं पर्जन्य पयसा समङ्धि ।
त्वया सृष्टं बहुलमैतु वर्षमाशारैषी कृशगुरेत्वस्तम् ॥ ४.१५.६ ॥
咆哮吧,雷鸣吧,撼动大海。帕尔查尼亚啊,以如乳的水充满大地。愿你所降下的丰沛甘雨到来;遍及四方,如瘦牛归栏,愿它回到自己的住处。
4.15.7
सं वोऽवन्तु सुदानव उत्सा अजगरा उत ।
मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीमनु ॥ ४.१५.७ ॥
愿慷慨的玛鲁特们保护你们;愿泉眼与如蛇般的溪流属于你们。愿被玛鲁特们摇撼而落下的云降雨于大地。
4.15.8
आशामाशां वि द्योततां वाता वान्तु दिशोदिशः ।
मरुद्भिः प्रच्युता मेघाः सं यन्तु पृथिवीमनु ॥ ४.१५.८ ॥
愿每一方都放光;愿风从各个方向吹起。愿被玛鲁特们摇落的云聚拢而去,奔向大地。
4.15.9
आपो विद्युदभ्रं वर्षं सं वोऽवन्तु सुदानव उत्सा अजगरा उत ।
मरुद्भिः प्रच्युता मेघाः प्रावन्तु पृथिवीमनु ॥ ४.१५.९ ॥
啊,水与闪电、云与雨——愿慷慨者护佑你们;愿泉眼与如蛇的溪流属于你们。愿被玛鲁特们摇落的云润泽大地。
4.15.10
अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव ।
स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि ॥ ४.१५.१० ॥
水中之火,与其诸身相合,已成为草木之主——愿那位遍知者(Jātavedas)赐予我们雨;愿他从天上赐予众生气息与不死。
4.15.11
प्रजापतिः सलिलादा समुद्रादाप ईरयन्न् उदधिमर्दयाति ।
प्र प्यायतां वृष्णो अश्वस्य रेतोऽर्वान् एतेन स्तनयित्नुनेहि ॥ ४.१५.११ ॥
生主(Prajāpati)从洪流与大海中推动众水,撼动大海。愿公牛与骏马的精液充盈;随此雷声,来到这里吧。
4.15.12
अपो निषिञ्चन्न् असुरः पिता नः श्वसन्तु गर्गरा अपां वरुणाव नीचीरपः सृज ।
वदन्तु पृश्निबाहवो मण्डूका इरिणानु ॥ ४.१५.१२ ॥
愿我们的父亲阿修罗倾注雨水,愿嘎尔嘎拉之流潺潺作响。婆罗那啊,释放向下流淌的水。愿斑纹手臂的青蛙在干燥的大地上鸣叫。
4.15.13
संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।
वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥ ४.१५.१३ ॥
青蛙如同沉睡一年、持守誓戒的婆罗门,发出了被帕尔贾尼亚唤醒的声音。
4.15.14
उपप्रवद मण्डूकि वर्षमा वद तादुरि ।
मध्ये ह्रदस्य प्लवस्व विगृह्य चतुरः पदः ॥ ४.१५.१४ ॥
青蛙啊,上前来宣说雨水;宣说雨水吧,哦,达杜里。在池塘中央收起四足游动吧。
4.15.15
खण्वखा३ खैमखा३ मध्ये तदुरि ।
वर्षं वनुध्वं पितरो मरुतां मन इच्छत ॥ ४.१५.१५ ॥
坎瓦卡、开玛卡——在中间,哦,达杜里。诸祖先啊,赢得雨水吧;愿望摩如特的心意。
4.15.16
महान्तं कोशमुदचाभि षिञ्च सविद्युतं भवतु वातु वातः ।
तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीरोषधयो भवन्तु ॥ ४.१५.१६ ॥
将那大宝库提起倾注;愿它伴着闪电,愿风吹拂。愿被释放的草药,以种种方式展开祭祀,欢喜快乐。