Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 4.16

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.16.1

बृहन्न् एषामधिष्ठाता अन्तिकादिव पश्यति ।
य स्तायन् मन्यते चरन्त्सर्वं देवा इदं विदुः ॥ ४.१६.१ ॥

这些众生的伟大主宰仿佛近在眼前般观察。那暗中行走、以为无人看见的人,诸神都知道这一切。

4.16.2

यस्तिष्ठति चरति यश्च वञ्चति यो निलायं चरति यः प्रतङ्कम् ।
द्वौ संनिषद्य यन् मन्त्रयेते राजा तद्वेद वरुणस्तृतीयः ॥ ४.१६.२ ॥

站立的、行走的、欺骗的、隐匿游走的、以间谍身份徘徊的人,以及两人坐在一起密谋的事,国王都知道;第三者瓦鲁那也知道。

4.16.3

उतेयं भूमिर्वरुणस्य राज्ञ उतासौ द्यौर्बृहती दूरेअन्ता ।
उतो समुद्रौ वरुणस्य कुक्षी उतास्मिन्न् अल्प उदके निलीनः ॥ ४.१६.३ ॥

这大地属于国王瓦鲁那,那广阔而边界遥远的天空也属于他;两大海洋是瓦鲁那的腹部,即使隐藏在这小小水中的人,也属于他。

4.16.4

उत यो द्यामतिसर्पात्परस्तान् न स मुच्यातै वरुणस्य राज्ञः ।
दिव स्पशः प्र चरन्तीदमस्य सहस्राक्षा अति पश्यन्ति भूमिम् ॥ ४.१६.४ ॥

即使有人逃到天空之外,也逃不脱国王瓦鲁那。天上的探子朝他而去;千眼者注视着这大地。

4.16.5

सर्वं तद्राजा वरुणो वि चष्टे यदन्तरा रोदसी यत्परस्तात् ।
संख्याता अस्य निमिषो जनानामक्षान् इव श्वघ्नी नि मिनोति तानि ॥ ४.१६.५ ॥

国王瓦鲁那清楚地看见天地之间的一切,也看见天地之外的一切。人们的每一次眨眼都由他计算;如同赌徒掷骰,他将它们一一摆布。

4.16.6

ये ते पाशा वरुण सप्तसप्त त्रेधा तिष्ठन्ति विषिता रुषन्तः ।
छिनन्तु सर्वे अनृतं वदन्तं यः सत्यवाद्यति तं सृजन्तु ॥ ४.१६.६ ॥

啊,伐罗那!你那七七之索以三种方式立着,张开而发光;愿它们割断说谎之人,放开说真话之人。

4.16.7

शतेन पाशैरभि धेहि वरुणैनं मा ते मोच्यनृतवाङ्नृचक्षः ।
आस्तां जाल्म उदरं श्रंशयित्वा कोश इवाबन्धः परिकृत्यमानः ॥ ४.१६.७ ॥

啊,伐罗那!用一百条索缚住他;愿窥伺人群的说谎者不因你而获释。愿这欺诈者腹部下垂,如解开的口袋,四面被割断。

4.16.8

यः समाभ्यो वरुणो यो व्याभ्यो यः संदेश्यो वरुणो यो विदेश्यो ।
यो दैवो वरुणो यश्च मानुषः ॥ ४.१६.८ ॥

对同类者为伐罗那,对异类者为伐罗那,对近者为伐罗那,对远者为伐罗那,神性的伐罗那,以及人性的那一位。

4.16.9

तैस्त्वा सर्वैरभि ष्यामि पाशैरसावामुष्यायणामुष्याः पुत्र ।
तान् उ ते सर्वान् अनुसंदिशामि ॥ ४.१६.९ ॥

我以那一切索缚住你;此人,某人之子,某人之妻之子。我把那一切都派去追随你。