Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 4.17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.17.1

ईशाणां त्वा भेषजानामुज्जेष आ रभामहे ।
चक्रे सहस्रवीर्यं सर्वस्मा ओषधे त्वा ॥ ४.१७.१ ॥

草药啊,我们从药草之主中取你以求胜利。你具千倍之力,在轮中为众人所用;草药啊,你。

4.17.2

सत्यजितं शपथयावनीं सहमानां पुनःसराम् ।
सर्वाः समह्व्योषधीरितो नः पारयादिति ॥ ४.१७.२ ॥

召集所有草药:胜过真实、祛除咒诅、压服一切、再度奔走的草药,愿它们从此处引领我们渡过。

4.17.3

या शशाप शपनेन याघं मूरमादधे ।
या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥ ४.१७.३ ॥

以诅咒诅咒之者,设置邪恶与愚人者,为夺取汁液而抓住所生之婴儿者——愿她吞噬它。

4.17.4

यां ते चक्रुरामे पात्रे यां चक्रुर्नीललोहिते ।
आमे मांसे कृत्यां यां चक्रुस्तया कृत्याकृतो जहि ॥ ४.१७.४ ॥

他们在生器中所作的咒术,在青红器中所作的,在生肉中所作的咒术——以此击杀施咒者。

4.17.5

दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः ।
दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि ॥ ४.१७.५ ॥

恶梦、恶生、罗刹、可怖者、吝啬者、恶名者、一切恶语——这些我们从自身消灭。

4.17.6

क्षुधामारं तृष्णामारमगोतामनपत्यताम् ।
अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥ ४.१७.६ ॥

灭饥、灭渴、无牛、无子——阿波摩伽啊,借你,我们将这一切抹去。

4.17.7

तृष्णामारं क्षुधामारमथो अक्षपराजयम् ।
अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥ ४.१७.७ ॥

消除渴的,消除饥的,也消除骰子赌博中的失败。阿帕玛迦啊,借你,我们将这一切擦拭干净。

4.17.8

अपामार्ग ओषधीनां सर्वासामेक इद्वशी ।
तेन ते मृज्म आस्थितमथ त्वमगदश्चर ॥ ४.१७.८ ॥

阿帕玛迦啊,在所有草药中,唯有你是能够制伏者。借此,我们洗净在你之中所留存的(病);然后你作为药物去游行吧。