Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 4.2

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.2.1

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
योऽस्येशे द्विपदो यश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥ ४.२.१ ॥

赐予生命者,赐予力量者,万物所敬拜者,诸神遵从其命者,主宰两足与四足众生者——愿我们以祭供礼拜此神。

4.2.2

यः प्राणतो निमिषतो महित्वैको राजा जगतो बभूव ।
यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ ४.२.२ ॥

以其伟大成为呼吸与眨眼之世界的唯一君王者,其影即是不死,其死亦是他——愿我们以祭供礼拜此神。

4.2.3

यं क्रन्दसी अवतश्चस्कभाने भियसाने रोदसी अह्वयेथाम् ।
यस्यासौ पन्था रजसो विमानः कस्मै देवाय हविषा विधेम ॥ ४.२.३ ॥

两个咆哮的世界自下支撑着他,你们二者在恐惧中呼唤他,其路径是空界的度量者——愿我们以祭供礼拜此神。

4.2.4

यस्य द्यौरुर्वी पृथिवी च मही यस्याद उर्वन्तरिक्षम् ।
यस्यासौ सूरो विततो महित्वा कस्मै देवाय हविषा विधेम ॥ ४.२.४ ॥

其广阔的天、辽阔的地与伟大的虚空皆属于他,其太阳以其伟大而展开——愿我们以祭供礼拜此神。

4.2.5

यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसामिदाहुः ।
इमाश्च प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥ ४.२.५ ॥

凭其伟大,一切雪山得以存在;在其海中据说有罗沙河;这些方位即是其臂——愿我们以祭供礼拜此神。

4.2.6

आपो अग्रे विश्वमावन् गर्भं दधाना अमृता ऋतज्ञाः ।
यासु देवीष्वधि देव आसीत्कस्मै देवाय हविषा विधेम ॥ ४.२.६ ॥

太初之时,诸水承载万物,怀藏胚胎,不死而知天则。在那些神圣之水中,神曾居于其上,我们应以祭品供奉哪一位神?

4.2.7

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीमुत द्यां कस्मै देवाय हविषा विधेम ॥ ४.२.७ ॥

太初之时,金胎生起;他独自是一切生灵之主。他承载大地与天空。我们应以祭品供奉哪一位神?

4.2.8

आपो वत्सं जनयन्तीर्गर्भमग्रे समैरयन् ।
तस्योत जायमानस्योल्ब आसीद्धिरण्ययः कस्मै देवाय हविषा विधेम ॥ ४.२.८ ॥

诸水生出幼犊,太初之时将胚胎一同推动。那将要诞生者的胎膜是金色的。我们应以祭品供奉哪一位神?