阿闼婆吠陀 · 颂诗(Sūkta) 4.20
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.20.1
आ पश्यति प्रति पश्यति परा पश्यति पश्यति ।
दिवमन्तरिक्षमाद्भूमिं सर्वं तद्देवि पश्यति ॥ ४.२०.१ ॥
她向前看,向后看,向远处看;女神啊,她看见天、中空、大地,以及一切。
4.20.2
तिस्रो दिवस्तिस्रः पृथिवीः षट्चेमाः प्रदिशाः पृथक् ।
त्वयाहं सर्वा भूतानि पश्यानि देव्योषधे ॥ ४.२०.२ ॥
三天、三地,以及这六个方位,各自分明;女神药草啊,愿我借你看见一切众生。
4.20.3
दिव्यस्य सुपर्णस्य तस्य हासि कनीनिका ।
सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव ॥ ४.२०.३ ॥
你是那天界美翼神鸟的瞳人;你爬上大地,就像疲倦的新娘登上车辆。
4.20.4
तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत् ।
तयाहं सर्वं पश्यामि यश्च शूद्र उतार्यः ॥ ४.२०.४ ॥
千眼之神为我将她置于右手;借她我看见一切,无论是首陀罗,还是雅利安人。
4.20.5
आविष्कृणुष्व रूपाणि मात्मानमप गूहथाः ।
अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥ ४.२०.५ ॥
显现你的形相,不要从我这里隐藏自己。千眼者啊,你回头去看那些奸细与狡猾之徒。
4.20.6
दर्शय मा यातुधानान् दर्शय यातुधान्यः ।
पिशाचान्त्सर्वान् दर्शयेति त्वा रभ ओषधे ॥ ४.२०.६ ॥
请让我看见那些妖术鬼,看见那些妖术女鬼;让我看见所有食肉的毕舍遮。如此说着,我握住你,药草啊。
4.20.7
कश्यपस्य चक्षुरसि शुन्याश्च चतुरक्ष्याः ।
वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः ॥ ४.२०.७ ॥
你是迦叶波之眼,也是狗母与四眼者之眼。如太阳在云隙中滑行,请使食肉的鬼怪从我眼前隐去。
4.20.8
उदग्रभं परिपाणाद्यातुधानं किमीदिनम् ।
तेनाहं सर्वं पश्याम्युत शूद्रमुतार्यम् ॥ ४.२०.८ ॥
我从护栏中拔出了妖术者与爬行的恶鬼基密丁。凭此力量我看清一切——奴仆与高贵者皆然。
4.20.9
यो अन्तरिक्षेण पतति दिवं यश्च अतिसर्पति ।
भूमिं यो मन्यते नाथं तं पिशाचं प्र दर्शय ॥ ४.२०.९ ॥
请显露那穿越中空飞行、升至天空、越过大地爬行、并以大地为主人的鬼怪。