阿闼婆吠陀 · 颂诗(Sūkta) 4.22
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.22.1
इममिन्द्र वर्धय क्षत्रियं मे इमं विशामेकवृषं कृणु त्वम् ।
निरमित्रान् अक्ष्णुह्यस्य सर्वांस्तान् रन्धयास्मा अहमुत्तरेषु ॥ ४.२२.१ ॥
因陀罗啊,使我这位刹帝利之王增长;使他成为众民中唯一的公牛。驱逐敌人,使其锋刃钝化;让他们全都臣服于他;我将他立于高者之中。
4.22.2
एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो अमित्रो अस्य ।
वर्ष्म क्षत्राणामयमस्तु राजेन्द्र शत्रुं रन्धय सर्वमस्मै ॥ ४.२२.२ ॥
在村落、马匹、牛群中赐予他一份;赐予他圆满繁荣的份额。凡是他的敌人……愿这位君王达到刹帝利力量的顶峰;因陀罗啊,使敌人完全臣服于他。
4.22.3
अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा ।
अस्मिन्न् इन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य ॥ ४.२२.३ ॥
愿他成为财富之主;愿他成为众民之主的君王。因陀罗啊,在他身上置入伟大的光辉;使他的敌人失去光彩。
4.22.4
अस्मै द्यावापृथिवी भूरि वामं दुहाथां घर्मदुघे इव धेनू ।
अयं राजा प्रिय इन्द्रस्य भूयात्प्रियो गवामोषधीनां पशूनाम् ॥ ४.२२.४ ॥
愿天与地为他挤出丰厚的财富,如同热饮的乳牛。愿这位君王为因陀罗所爱;愿他也为牛群、草木和牲畜所爱。
4.22.5
युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते ।
यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम् ॥ ४.२२.५ ॥
因陀罗啊,我将你与那更高者相连,凭此他们得胜而不败。使你成为众民、诸王与人类中唯一至上之公牛的那一位。
4.22.6
उत्तरस्त्वमधरे ते सपत्ना ये के च राजन् प्रतिशत्रवस्ते ।
एकवृष इन्द्रसखा जिगीवां छत्रूयतामा भरा भोजनानि ॥ ४.२२.६ ॥
你最高;你的对手都在你之下。啊国王,凡是与你为敌的人,也都在你之下。愿独一之牛、因陀罗之友、得胜者,把那些想要为敌之人的享受带到这里。
4.22.7
सिंहप्रतीको विशो अद्धि सर्वा व्याघ्रप्रतीकोऽव बाधस्व शत्रून् ।
एकवृष इन्द्रसखा जिगीवां छत्रूयतामा खिदा भोजनानि ॥ ४.२२.७ ॥
啊,你有狮子的标志,征服所有的民众;成为有虎之标志者,驱逐敌人。愿独一之牛、因陀罗之友、得胜者,摧毁那些想要为敌之人的享受。