阿闼婆吠陀 · 颂诗(Sūkta) 4.28
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.28.1
भवाशर्वौ मन्वे वां तस्य वित्तं ययोर्वामिदं प्रदिशि यद्विरोचते ।
यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥ ४.२८.१ ॥
婆婆与湿婆,我思念你们二位;这个在其方位闪耀的世界是你们的财富。你们二位是两足与四足众生的主宰,愿你们使我们脱离灾厄。
4.28.2
ययोरभ्यभ्व उत यद्दूरे चिद्यौ विदिताविषुभृतामसिष्ठौ ।
यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥ ४.२८.२ ॥
你们压倒一切的威力甚至远及远方;你们二位被称为弓手中最精湛者,是两足与四足众生的主宰,愿你们使我们脱离灾厄。
4.28.3
सहस्राक्षौ वृत्रहना हुवेहं दूरेगव्यूती स्तुवन्न् एम्युग्रौ ।
यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥ ४.२८.३ ॥
你们二位,千目、诛杀弗栗多的猛烈者,我在远处赞颂并呼唤你们;你们是两足与四足众生的主宰,愿你们使我们脱离灾厄。
4.28.4
यावारेभाथे बहु साकमग्रे प्र चेदस्राष्ट्रमभिभां जनेषु ।
यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥ ४.२८.४ ॥
你们二位在前共同发起众多事业,在民众之中显现那征服大地的无畏之业;你们是两足与四足众生的主宰,愿你们使我们脱离灾厄。
4.28.5
ययोर्वधान् नापपद्यते कश्चनान्तर्देवेषूत मानुषेषु ।
यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥ ४.२८.५ ॥
你们的打击从不落空,无论在神灵之间还是人类之中;你们二位是两足与四足众生的主宰,愿你们使我们脱离灾厄。
4.28.6
यः कृत्याकृन् मूलकृद्यातुधानो नि तस्मिन् धत्तं वज्रमुग्रौ ।
यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥ ४.२८.६ ॥
对那作咒术、施根咒、为妖术者的人,你们二位猛烈者,请降下金刚杵。你们二位统治他的两足与四足之物,请使我们脱离苦难。
4.28.7
अधि नो ब्रूतं पृतनासूग्रौ सं वज्रेण सृजतं यः किमीदी ।
स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥ ४.२८.७ ॥
二位猛烈者,请在战斗中为我们发声;将金刚杵好好掷向那为“基米丁”者。我赞颂婆婆与舍尔瓦,恳求地呼唤他们;愿那二位使我们脱离苦难。