阿闼婆吠陀 · 颂诗(Sūkta) 4.3
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.3.1
उदितस्त्रयो अक्रमन् व्याघ्रः पुरुषो वृकः ।
हिरुग्घि यन्ति सिन्धवो हिरुग्देवो वनस्पतिर्हिरुङ्नमन्तु शत्रवः ॥ ४.३.१ ॥
三者起身前行:虎、人与狼。以 hirug 河流奔流;树木即 hirug 神;愿敌人以 hirug 俯首。
4.3.2
परेणैतु पथा वृकः परमेणोत तस्करः ।
परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥ ४.३.२ ॥
愿狼走远路,贼走更远之路;带齿的绳索远离;心怀恶意者远远逃去。
4.3.3
अक्ष्यौ च ते मुखं च ते व्याघ्र जम्भयामसि ।
आत्सर्वान् विंशतिं नखान् ॥ ४.३.३ ॥
虎啊,你的双眼与口,我们都要压碎;直至你二十只爪。
4.3.4
व्याघ्रं दत्वतां वयं प्रथमं जम्भयामसि ।
आदु ष्टेनमथो अहिं यातुधानमथो वृकम् ॥ ४.३.४ ॥
在有齿者中,我们先压碎虎;然后是贼、蛇、妖术者,以及狼。
4.3.5
यो अद्य स्तेन आयति स संपिष्टो अपायति ।
पथामपध्वंसेनैत्विन्द्रो वज्रेण हन्तु तम् ॥ ४.३.५ ॥
今日来的盗贼,被压碎而逃去;愿他随路径的毁灭而去;愿因陀罗以金刚杵击他。
4.3.6
मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः ।
निम्रुक्ते गोधा भवतु नीचायच्छशयुर्मृगः ॥ ४.३.६ ॥
愿鹿的齿毛茸茸,肋骨不折;愿壁虎低垂;愿藏身卧伏的鹿也低伏。
4.3.7
यत्संयमो न वि यमो वि यमो यन् न संयमः ।
इन्द्रजाः सोमजा आथर्वणमसि व्याघ्रजम्भनम् ॥ ४.३.७ ॥
非约束者即为离散,离散者非约束。你生于因陀罗,生于苏摩;你是阿闼婆的咒,碾碎老虎者。