阿闼婆吠陀 · 颂诗(Sūkta) 4.30
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.30.1
अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ ४.३०.१ ॥
我与楼陀罗们和婆苏们同行,也与阿底提们和一切天神同行。我护持二者,弥陀罗与伐楼那;我护持因陀罗与阿耆尼,以及双阿输二神。
4.30.2
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः ॥ ४.३०.२ ॥
我是至尊的女王,聚集财富者,在值得献祭之物中最先知晓者。诸神将我安置于许多处所,以多种方式使我进入。
4.30.3
अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम् ।
यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ ४.३०.३ ॥
我自己说出这些,为诸神与世人所喜爱。我所爱之人,我使他形体威猛;使他成为婆罗门,使他成为仙人,使他具足善慧。
4.30.4
मया सोऽन्नमत्ति यो विपश्यति यः प्राणति य ईं शृणोत्युक्तम् ।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रुद्धेयं ते वदामि ॥ ४.३०.४ ॥
凭借我,能见、能呼吸、能真正听闻所说之言者便得食。无思之人虽居我近旁仍归于灭亡。听吧,闻者啊;我把值得信受的话告诉你。
4.30.5
अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
अहं जनाय समदं कृणोमि अहं द्यावापृथिवी आ विवेश ॥ ४.३०.५ ॥
我为楼陀罗张开弓,以箭射杀憎恶婆罗门者。我为众人鸣起战斗的喧声;我已进入天与地。
4.30.6
अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥ ४.३०.६ ॥
我承载着苏摩,即在石中碾捣的苏摩;我也承载特瓦什塔尔、普山与薄伽。我把易于守护的财富赐予献上祭品、压榨苏摩的供奉者。
4.30.7
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे ।
ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥ ४.३०.७ ॥
我在此世之巅生出父亲;我的胎藏在水中,在海洋之中。从那里我屹立于一切世界之上,并以我的伟大触及那天空。
4.30.8
अहमेव वातैव प्र वाम्यारभमाणा भुवनानि विश्वा ।
परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव ॥ ४.३०.८ ॥
我自己如风一般吹动,开启一切世界。超越天空,超越此地,我以我的伟大而变得如此广大。