Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 4.32

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.32.1

यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् ।
साह्याम दासमार्यं त्वया युजा वयं सहस्कृतेन सहसा सहस्वता ॥ ४.३२.१ ॥

啊,摩纽(愤怒)!凡被你以金刚杵与箭所击者,其力量便在每个人身上依次增长。愿与你为盟,以你所增之力,我们战胜奴隶之敌与高贵之敌。

4.32.2

मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः ।
मन्युं विश ईडते मानुषीर्याः पहि नो मन्यो तपसा सजोषाः ॥ ४.३२.२ ॥

摩纽即因陀罗,摩纽诚为神;摩纽即呼唤祭司、伐楼那、遍知者。人类诸部族赞颂摩纽。啊,摩纽,与苦行同悦,护佑我们!

4.32.3

अभीहि मन्यो तवसस्तवीयान् तपसा युजा वि जहि शत्रून् ।
अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥ ४.३२.३ ॥

啊,摩纽,强中之强,前进吧!作为苦行之伴,驱逐并击杀诸敌。作为敌人的屠杀者、弗栗多的屠杀者、达娑的屠杀者,为我们带来一切财富。

4.32.4

त्वं हि मन्यो अभिभूत्योजाः स्वयंभूर्भामो अभिमातिषाहः ।
विश्वचर्षणिः सहुरिः सहीयान् अस्मास्वोजः पृतनासु धेहि ॥ ४.३२.४ ॥

你确实,啊,摩纽,具有压倒之力:自生、炽烈、胜敌者;观照万物、征服者、更为强大。请在战斗中将你的力量置于我们之中。

4.32.5

अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः ।
तं त्वा मन्यो अक्रतुर्जिहीडाहं स्वा तनूर्बलदावा न एहि ॥ ४.३२.५ ॥

我失了分份,远离你的力量与意志,啊,明智的强者。啊,摩纽,我无智而激怒了你;赐我身体以力量者,请来我们这里!

4.32.6

अयं ते अस्म्युप न एह्यर्वाङ्प्रतीचीनः सहुरे विश्वदावन् ।
मन्यो वज्रिन्न् अभि न आ ववृत्स्व हनाव दस्यूंरुत बोध्यापेः ॥ ४.३२.६ ॥

我属于你。请靠近我们,转身面向我们,哦胜利者,哦赐予一切者。哦摩尼优,哦持金刚者,转向我们吧;让我们二人杀死达娑,也唤醒那同伴。

4.32.7

अभि प्रेहि दक्षिणतो भवा नोऽधा वृत्राणि जङ्घनाव भूरि ।
जुहोमि ते धरुणं मध्वो अग्रमुभावुपांशु प्रथमा पिबाव ॥ ४.३२.७ ॥

上前来,站在我们的右侧;那么我们二人便能击杀众多敌人。我将蜂蜜的首要支撑献给你;让我们二人先悄悄地饮用它。