阿闼婆吠陀 · 颂诗(Sūkta) 4.34
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.34.1
ब्रह्मास्य शीर्षं बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य ।
छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी जातस्तपसोऽधि यज्ञः ॥ ४.३४.१ ॥
其首为梵(brahman),其背为布利哈特(bṛhat);饭团(odana)之腹为瓦玛德瓦(vāmadevya)。诗律是其双翼,真理是其口;由苦行而生的毗湿陀利(viṣṭārī)祭祀。
4.34.2
अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिमपि यन्ति लोकम् ।
नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणमेषाम् ॥ ४.३४.२ ॥
无骨、清净、被风洗净的洁净者,甚至到达洁净之界。生知者阿耆尼不焚烧他们的阴茎;在天界,他们享有众多女色之乐。
4.34.3
विष्टारिणमोदनं ये पचन्ति नैनान् अवर्तिः सचते कदा चन ।
आस्ते यम उप याति देवान्त्सं गन्धर्वैर्मदते सोम्येभिः ॥ ४.३४.३ ॥
烹煮毗湿陀利饭团(odana)者,凶厄从不加于其身。阎摩守在其旁,前往诸神之处,并与苏摩之乾闼婆同乐。
4.34.4
विष्टारिणमोदनं ये पचन्ति नैनान् यमः परि मुष्णाति रेतः ।
रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वाति दिवः समेति ॥ ४.३४.४ ॥
烹煮毗湿陀利饭团者,阎摩不夺其精气。他们成为御车者而乘车而行;化为飞鸟,越过天空而相聚。
4.34.5
एष यज्ञानां विततो वहिष्ठो विष्टारिणं पक्त्वा दिवमा विवेश ।
आण्डीकं कुमुदं सं तनोति बिसं शालूकं शफको मुलाली ।
एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥ ४.३४.५ ॥
这位广大、最能承载祭祀的阿耆尼,煮好了铺开的米饭(viṣṭārin),已进入天界。他铺展阿难提迦、俱穆陀、比萨、舍卢迦、沙波迦和牟罗利。愿这些水流都来到你这里;在天界充满甘甜,四周的莲池都站在你身边。
4.34.6
घृतह्रदा मधुकूलाः सुरोदकाः क्षीरेण पूर्णा उदकेन दध्ना ।
एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥ ४.३४.६ ॥
酥油之湖,蜜糖之岸,水带芬芳,充满乳、水与凝乳。愿这些水流都来到你这里;在天界充满甘甜,四周的莲池都站在你身边。
4.34.7
चतुरः कुम्भांश्चतुर्धा ददामि क्षीरेण पूर्नामुदकेन दध्ना ।
एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥ ४.३४.७ ॥
我以四种方式奉上四个罐子,充满乳、水与凝乳。愿这些水流都来到你这里;在天界充满甘甜,四周的莲池都站在你身边。
4.34.8
इममोदनं नि दधे ब्राह्मणेषु विष्टारिणं लोकजितं स्वर्गम् ।
स मे मा क्षेष्ट स्वधया पिन्वमानो विश्वरूपा धेनुः कामदुघा मे अस्तु ॥ ४.३४.८ ॥
我将此煮饭供奉置于婆罗门之中:它遍布、征服诸世界,它即天界。愿它因自身的 svadhā 而充盈,不对我有所缺失;愿它成为我的万相之牛,能挤出诸般愿望。