アタルヴァ・ヴェーダ · スークタ 4.37
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.37.1
त्वया पूर्वमथर्वाणो जघ्नू रक्षांस्योषधे ।
त्वया जघान कश्यपस्त्वया कण्वो अगस्त्यः ॥ ४.३७.१ ॥
ああ薬草よ、かつてアタルヴァンたちはおまえによって羅刹を打ち倒した。おまえによってカシャパが打ち、おまえによってカンヴァとアガスティヤが打った。
4.37.2
त्वया वयमप्सरसो गन्धर्वांस्चातयामहे ।
अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ॥ ४.३७.२ ॥
おまえによって、われらはアプサラスとガンダルヴァを追い払う。ああアジャシュリンギーよ、すべての羅刹を香りによって追い払い、滅ぼせ。
4.37.3
नदीं यन्त्वप्सरसोऽपां तारमवश्वसम् ।
गुल्गुलूः पीला नलद्यौक्षगन्धिः प्रमन्दनी ।
तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥ ४.३७.३ ॥
アプサラスたちは川へ、水を渡る者アヴァシュヴァサのもとへ行け。グッグル、ピーラー、ナラダ、牛の香り、陶酔させるもの。そこへ行け、アプサラスたちよ、目覚めた者となれ。
4.37.4
यत्राश्वत्था न्यग्रोधा महावृक्षाः शिखण्डिनः ।
तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥ ४.३७.४ ॥
アシュヴァッタ、ニャグローダ、そして冠をもつ大樹のあるところ、そこへ行け、アプサラスたちよ、目覚めた者となれ。
4.37.5
यत्र वः प्रेङ्खा हरिता अर्जुना उत यत्राघाताः कर्कर्यः संवदन्ति ।
तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥ ४.३७.५ ॥
おまえたちの緑と白のブランコがあり、カルカリー太鼓が共に鳴り響くところ、そこへ行け、アプサラスたちよ、目覚めた者となれ。
4.37.6
एयमगन्न् ओषधीनां वीरुधां वीर्यावती ।
अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु ॥ ४.३७.६ ॥
この力ある者は薬草と蔓草の中に来た。アジャシュリンギー、アラータキー、鋭い角の者よ、打ち払え。
4.37.7
आनृत्यतः शिखण्डिनो गन्धर्वस्याप्सरापतेः ।
भिनद्मि मुष्कावपि यामि शेपः ॥ ४.३७.७ ॥
踊り狂う冠をもつガンダルヴァ、アプサラスの主の睾丸を私は裂く。陰茎も私は切り落とす。
4.37.8
भीमा इन्द्रस्य हेतयः शतमृष्टीरयस्मयीः ।
ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥ ४.३७.८ ॥
インドラの恐ろしい武器、鉄の百本の槍。それで供物を食う ガンダルヴァと腐肉を食う者どもを貫け。
4.37.9
भीमा इन्द्रस्य हेतयः शतमृष्टीर्हिरण्ययीः ।
ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥ ४.३७.९ ॥
インドラの恐ろしい武器、金の百本の槍。それで供物を食う ガンダルヴァと腐肉を食う者どもを貫け。
4.37.10
अवकादान् अभिशोचान् अप्सु ज्योतय मामकान् ।
पिशाचान्त्सर्वान् ओषधे प्र मृणीहि सहस्व च ॥ ४.३७.१० ॥
ああ薬草よ、腐肉を食う者どもを焼け。わが者どもを水中で輝かせよ。肉を食うピシャーチャをことごとく砕き、征服せよ。
4.37.11
श्वेवैकः कपिरिवैकः कुमारः सर्वकेशकः ।
प्रियो दृश इव भूत्वा गन्धर्वः सचते स्त्रियस् ।
तमितो नाशयामसि ब्रह्मणा वीर्यावता ॥ ४.३७.११ ॥
犬のように一人、猿のように一人、全身毛深い若者。見目麗しい愛しい者となって、ガンダルヴァは女たちと交わる。彼を我々はここから強力なブラフマン(祈りの言葉)によって滅ぼす。
4.37.12
जाया इद्वो अप्सरसो गन्धर्वाः पतयो यूयम् ।
अप धावतामर्त्या मर्त्यान् मा सचध्वम् ॥ ४.३७.१२ ॥
アプサラスはおまえたちの妻であり、ガンダルヴァよ、おまえたちは彼女たちの夫だ。不死なる者どもよ、走り去れ。死すべき者どもと交わるな。