阿闼婆吠陀 · 颂诗(Sūkta) 4.38
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.38.1
उद्भिन्दतीं संजयन्तीमप्सरां साधुदेविनीम् ।
ग्लहे कृतानि कृण्वानामप्सरां तामिह हुवे ॥ ४.३८.१ ॥
我在此呼唤那位升起并带来胜利的阿普萨拉斯,那位善于博弈的女神,她在掷骰游戏中制造获胜的“克利塔”点数。
4.38.2
विचिन्वतीमाकिरन्तीमप्सरां साधुदेविनीम् ।
ग्लहे कृतानि गृह्णानामप्सरां तामिह हुवे ॥ ४.३८.२ ॥
我在此呼唤那位收集又抛散的阿普萨拉斯,那位善于博弈的女神,她在掷骰游戏中握住获胜的“克利塔”点数。
4.38.3
यायैः परिनृत्यत्याददाना कृतं ग्लहात् ।
सा नः कृतानि सीषती प्रहामाप्नोतु मायया ।
सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम् ॥ ४.३८.३ ॥
她与那些(骰子)一同旋舞,从掷骰游戏中夺取获胜的“克利塔”。愿她为我们播种胜利,凭借幻力赢得奖赏。愿富含乳汁的她来到我们这里;愿这财富不被他人从我们手中赢去。
4.38.4
या अक्षेषु प्रमोदन्ते शुचं क्रोधं च बिभ्रती ।
आनन्दिनीं प्रमोदिनीमप्सरां तामिह हुवे ॥ ४.३८.४ ॥
我在此呼唤那位在骰子中欢喜、承载忧愁与愤怒的阿普萨拉斯,那位带来欢乐、令人喜悦的女神。
4.38.5
सूर्यस्य रश्मीन् अनु याः सञ्चरन्ति मरीचीर्वा या अनुसञ्चरन्ति ।
यासामृषभो दूरतो वाजिनीवान्त्सद्यः सर्वान् लोकान् पर्येति रक्षन् ।
स न ऐतु होममिमं जुषाणोऽन्तरिक्षेण सह वाजिनीवान् ॥ ४.३८.५ ॥
在那些沿着太阳光线而行、或紧随光芒而行的存在之中,其公牛(主宰)从远处便刚健有力,立即巡行所有世界并加以守护——愿他接受此供物,作为强健者与虚空一同来到我们这里。
4.38.6
अन्तरिक्षेण सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन् ।
इमे ते स्तोका बहुला एह्यर्वाङियं ते कर्कीह ते मनोऽस्तु ॥ ४.३८.६ ॥
啊,拥有力量者,与中空一起,在此守护斑点母牛及其小牛,啊,强者。这些是你的众多滴液;请来到我们这边。愿这斑点母牛存于你心中。
4.38.7
अन्तरिक्षेण सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन् ।
अयं घासो अयं व्रज इह वत्सां नि बध्नीमः ।
यथानाम व ईश्महे स्वाहा ॥ ४.३८.७ ॥
啊,拥有力量者,与中空一起,在此守护斑点母牛及其小牛,啊,强者。这是草料,这是栏圈;在此将小牛拴住。依你的名,我们对你有所掌控。斯瓦哈。