Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 4.39

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.39.1

पृथिव्यामग्नये समनमन्त्स आर्ध्नोत् ।
यथा पृथिव्यामग्नये समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥ ४.३९.१ ॥

在大地上,他们一同向阿耆尼俯首;他得以兴盛。正如在大地上他们一同向阿耆尼俯首,愿他们也一同向我俯首。

4.39.2

पृथिवी धेनुस्तस्या अग्निर्वत्सः ।
सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम् ।
आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥ ४.३९.२ ॥

大地是母牛,阿耆尼是她的牛犊。愿她以阿耆尼为牛犊,为我挤出食物、力量与所愿。先是寿命、子嗣、滋养、财富——斯瓦哈。

4.39.3

अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत् ।
यथान्तरिक्षे वायवे समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥ ४.३९.३ ॥

在虚空中,他们一同向伐由俯首;他得以兴盛。正如在虚空中他们一同向伐由俯首,愿他们也一同向我俯首。

4.39.4

अन्तरिक्षं धेनुस्तस्या वायुर्वत्सः ।
सा मे वायुना वत्सेनेषमूर्जं कामं दुहाम् ।
आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥ ४.३९.४ ॥

虚空是母牛,伐由是她的牛犊。愿她以伐由为牛犊,为我挤出食物、力量与所愿。先是寿命、子嗣、滋养、财富——斯瓦哈。

4.39.5

दिव्यादित्याय समनमन्त्स आर्ध्नोत् ।
यथा दिव्यादित्याय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥ ४.३९.५ ॥

在天上,他们一同向阿ditya俯首;他得以兴盛。正如在天上他们一同向阿ditya俯首,愿他们也一同向我俯首。

4.39.6

द्यौर्धेनुस्तस्या आदित्यो वत्सः ।
सा म आदित्येन वत्सेनेषमूर्जं कामं दुहाम् ।
आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥ ४.३९.६ ॥

天空是乳牛,太阳阿底提耶是它的小牛。愿它借这小牛为我挤出食物、活力与所愿。长寿、长子、滋养、财富——娑婆诃。

4.39.7

दिक्षु चन्द्राय समनमन्त्स आर्ध्नोत् ।
यथा दिक्षु चन्द्राय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥ ४.३९.७ ॥

在四方,他们一同向月亮俯首;它便兴旺。正如在四方他们向月亮一同俯首,愿他们也一同向我俯首。

4.39.8

दिशो धेनवस्तासां चन्द्रो वत्सः ।
ता मे चन्द्रेण वत्सेनेषमूर्जं कामं दुहामायुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥ ४.३९.८ ॥

四方是乳牛,月亮是它们的小牛。愿它们借月亮这小牛为我挤出食物、活力与所愿。长寿、长子、滋养、财富——娑婆诃。

4.39.9

अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अभिशस्तिपा उ ।
नमस्कारेण नमसा ते जुहोमि मा देवानां मिथुया कर्म भागम् ॥ ४.३९.९ ॥

火在火中行进,已然入内;他是仙人之子,护佑免于咒诅。我以礼敬与恭顺向你献祭;愿我的行为不使诸神之分落空。

4.39.10

हृदा पूतं मनसा जातवेदो विश्वानि देव वयुनानि विद्वान् ।
सप्तास्यानि तव जातवेदस्तेभ्यो जुहोमि स जुषस्व हव्यम् ॥ ४.३९.१० ॥

以心清净,以意虔诚,哦,耶陀瓦斯——哦,神,你知晓一切道路。哦,耶陀瓦斯,你有七张嘴;我向它们献祭。请接受此供品。