阿闼婆吠陀 · 颂诗(Sūkta) 4.6
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.6.1
ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः ।
स सोमं प्रथमः पपौ स चकारारसं विषम् ॥ ४.६.१ ॥
婆罗门最先降生,十头十口。他最先饮下苏摩,并使毒液失去效力。
4.6.2
यावती द्यावापृथिवी वरिम्णा यावत्सप्त सिन्धवो वितष्ठिरे ।
वाचं विषस्य दूषणीं तामितो निरवादिषम् ॥ ४.६.२ ॥
天地在其广阔中延展多远,七河伸展多远,我便将那毒物败坏之言从此驱逐。
4.6.3
सुपर्णस्त्वा गरुत्मान् विष प्रथममावयत् ।
नामीमदो नारूरुप उतास्मा अभवः पितुः ॥ ४.६.३ ॥
金翅鸟迦鲁特曼最先将你搅入。啊,毒啊,你未使之昏迷,也未使之残毁;你对他竟成了父亲。
4.6.4
यस्त आस्यत्पञ्चाङ्गुरिर्वक्राच्चिदधि धन्वनः ।
अपस्कम्भस्य शल्यान् निरवोचमहं विषम् ॥ ४.६.४ ॥
无论你那五指之毒从弯曲处、从弓的顶端出来,我已驱除了那支撑之物的刺;我已将毒物驱出。
4.6.5
शल्याद्विषं निरवोचं प्राञ्जनादुत पर्णधेः ।
अपाष्ठाच्छृङ्गात्कुल्मलान् निरवोचमहं विषम् ॥ ४.६.५ ॥
从刺中,我驱出了毒;也从 prāñjana 与 parṇadhi 中。从 apāṣṭha 与角中,我驱出了 kulmala;我已将毒驱出。
4.6.6
अरसस्त इषो शल्योऽथो ते अरसं विषम् ।
उतारसस्य वृक्षस्य धनुष्टे अरसारसम् ॥ ४.६.६ ॥
你的箭无汁液,你的刺亦然;你的毒也无汁液。你那无汁之树所制的弓,全然无汁液。
4.6.7
ये अपीषन् ये अदिहन् य आस्यन् ये अवासृजन् ।
सर्वे ते वध्रयः कृता वध्रिर्विषगिरिः कृतः ॥ ४.६.७ ॥
那些研磨者、涂抹者、吐唾者、释放者——他们都被化为无力者;无力者被化为毒山。
4.6.8
वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे ।
वध्रिः स पर्वतो गिरिर्यतो जातमिदं विषम् ॥ ४.६.८ ॥
他们是无力者、掘者;哦,草药,你是此物的无力者。那无力者便是诞生此毒的山。