阿闼婆吠陀 · 颂诗(Sūkta) 4.7
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.7.1
वारिदं वारयातै वरणावत्यामधि ।
तत्रामृतस्यासिक्तं तेना ते वारये विषम् ॥ ४.७.१ ॥
这株赐水的植物在婆罗那瓦蒂,用于驱除毒物。那里洒了甘露;我以此驱除你的毒。
4.7.2
अरसं प्राच्यं विषमरसं यदुदीच्यम् ।
अथेदमधराच्यं करम्भेण वि कल्पते ॥ ४.७.२ ॥
东方的毒无味,北方的毒也无味。现在,这南方(下方)的毒以卡兰跋被分离开。
4.7.3
करम्भं कृत्वा तिर्यं पीबस्पाकमुदारथिम् ।
क्षुधा किल त्वा दुष्टनो जक्षिवान्त्स न रूरुपः ॥ ४.७.३ ॥
做成卡兰跋,横向转动——那肥美、煮熟、乘高车者——因饥饿,恶者已吞食了你;愿他不再伤害。
4.7.4
वि ते मदं मदावति शरमिव पातयामसि ।
प्र त्वा चरुमिव येषन्तं वचसा स्थापयामसि ॥ ४.७.४ ॥
啊,令人沉醉者!我们将你的醉意打落,如射落箭矢;你如祭器般移动,我们以咒语使你安定。
4.7.5
परि ग्राममिवाचितं वचसा स्थापयामसि ।
तिष्ठा वृक्ष इव स्थाम्न्यभ्रिखाते न रूरुपः ॥ ४.७.५ ॥
如同在聚集的村落四周设立稳固之处,我们以咒语使你坚定。如树木般站立于你的位置;在挖掘的坑中,愿它不再伤害。
4.7.6
पवस्तैस्त्वा पर्यक्रीणन् दूर्शेभिरजिनैरुत ।
प्रक्रीरसि त्वमोषधेऽभ्रिखाते न रूरुपः ॥ ४.७.६ ॥
他们以簸箕般的扇子、杜尔舍布和兽皮将你从四方买下。啊,草药!你已被完全买下;在挖掘的坑中,愿它不再伤害。
4.7.7
अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे ।
वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥ ४.७.७ ॥
你们这些最初未被获得者,无论你们做过何种事业,愿其在此不伤害我们的英雄;为你们,我将此置于前方。