Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 5.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.12.1

समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।
आ च वह मित्रमहश्चिकित्वान् त्वं दूतः कविरसि प्रचेताः ॥ ५.१२.१ ॥

今日你在人的家中被点燃。哦,生知者(Jātavedas),神啊,你礼敬诸神。你如密多罗般伟大,有智慧,你是使者、智者,洞察深远;把他们带到这里来。

5.12.2

तनूनपात्पथ ऋतस्य यानान् मध्वा समञ्जन्त्स्वदया सुजिह्व ।
मन्मानि धीभिरुत यज्ञमृन्धन् देवत्रा च कृणुह्यध्वरं नः ॥ ५.१२.२ ॥

哦,Tanūnapāt,以蜜涂抹宇宙秩序之路,舌头甘美,以思想与行为使祭祀兴旺,请在诸神之中成就我们的祭祀。

5.12.3

आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः ।
त्वं देवानामसि यह्व होता स एनान् यक्षीषितो यजीयान् ॥ ५.१२.३ ॥

被召唤、值得赞颂与礼敬的火神啊,请与诸婆苏欢聚而来。你是诸神中伟大的祭司;愿你受到激励,作为最值得供奉者,礼敬这些神灵。

5.12.4

प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् ।
व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥ ५.१२.४ ॥

在大地的这一方,黎明时分,日子的开始,割下面向东方的神圣草。它展开,越来越宽广,极其广阔,成为诸神与阿底提舒适的座位。

5.12.5

व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।
देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥ ५.१२.५ ॥

广阔而宽大的神圣之门啊,如为丈夫盛装的妻子般光彩照人,请广泛地敞开。你们推动一切,愿成为诸神通行的便道。

5.12.6

आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।
दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥ ५.१२.६ ॥

愿近旁压榨苏摩、行祭的晨曦与夜晚各就其位而坐:那两位神圣、伟大、佩戴金饰的少女,披着闪耀的光辉。

5.12.7

दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।
प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥ ५.१२.७ ॥

两位神圣、最初、言辞优美的祭司(户跋),衡量并完成人的祭祀,在仪式中激励,是技艺娴熟的工匠,以方向指示古老的光明。

5.12.8

आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती ।
तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वतीः स्वपसः सदन्ताम् ॥ ५.१२.८ ॥

愿婆罗提迅速来到我们的祭祀,伊达如人一般在此唤醒我们而来。愿三位女神,即萨罗室伐蒂,善于行事者,坐在这吉祥的圣草座上。

5.12.9

य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा ।
तमद्य होतरिषितो यजीयान् देवं त्वष्टारमिह यक्षि विद्वान् ॥ ५.१२.९ ॥

那位以形象装饰这两位生母天地与一切世界的神——祭司啊,如今受到激励,你应以智慧在此祭祀这最值得崇拜的神,特瓦希陀。

5.12.10

उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि ।
वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥ ५.१२.१० ॥

自己近前,循着诸神之路,按季节献上祭品。愿林中之主、祭者、神火阿耆尼,以蜜与酥油享用这供物。

5.12.11

सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः ।
अस्य होतुः प्रशिष्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥ ५.१२.११ ॥

刚一诞生,阿耆尼便衡量并确立了祭祀,成为诸神之前的引导者。依此祭司的引导,依循天道之言,愿诸神享用以 svāhā 所献的供物。