Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 5.14

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.14.1

सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा ।
दिप्सौषधे त्वं दिप्सन्तमव कृत्याकृतं जहि ॥ ५.१४.१ ॥

金翅鸟寻得你,野猪用口鼻将你掘出。哦,伤害之草(Dipsā),击倒那加害者,那施行咒术(kṛtyā)者。

5.14.2

अव जहि यातुधानान् अव कृत्याकृतं जहि ।
अथो यो अस्मान् दिप्सति तमु त्वं जह्योषधे ॥ ५.१४.२ ॥

击倒那些妖术者(yātudhāna),击倒施行咒术(kṛtyā)者。那些加害于我们的人,哦草药啊,你也要击杀他。

5.14.3

रिश्यस्येव परीशासं परिकृत्य परि त्वचः ।
कृत्यां कृत्याकृते देवा निष्कमिव प्रति मुञ्चत ॥ ५.१४.३ ॥

如同割去羚羊皮周围的网,诸神啊,把咒术(kṛtyā)释放回施行者身上,就像归还金饰一样。

5.14.4

पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय ।
समक्षमस्मा आ धेहि यथा कृत्याकृतं हनत् ॥ ५.१४.४ ॥

再次牵着咒术(kṛtyā)的手,把它带回施行者那里。把它放在他面前,让它击杀施行咒术者。

5.14.5

कृत्याः सन्तु कृत्याकृते शपथः शपथीयते ।
सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥ ५.१४.५ ॥

愿咒术(kṛtyā)归于施咒者;愿诅咒落在被诅咒者身上。如舒适的车辆转向,愿咒术再次转回施行者身上。

5.14.6

यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने ।
तामु तस्मै नयामस्यश्वमिवाश्वाभिधान्या ॥ ५.१४.६ ॥

无论女人还是男人,若为作恶而施行咒术(kṛtyā),我们就把它导回给他,如同用马刺驱赶马匹。

5.14.7

यदि वासि देवकृता यदि वा पुरुषैः कृता ।
तां त्वा पुनर्णयामसीन्द्रेण सयुजा वयम् ॥ ५.१४.७ ॥

无论你是诸神所造,还是人所造,我们与因陀罗相结,将你送回。

5.14.8

अग्ने पृतनाषाट्पृतनाः सहस्व ।
पुनः कृत्यां कृत्याकृते प्रतिहरणेन हरामसि ॥ ५.१४.८ ॥

阿耆尼啊,征服军队者,制服敌军吧!我们以反送之法,将巫术送回到施行者那里。

5.14.9

कृतव्यधनि विध्य तं यश्चकार तमिज्जहि ।
न त्वामचक्रुषे वयं वधाय सं शिशीमहि ॥ ५.१४.९ ॥

啊,刺穿作恶者的女神,刺穿那个作此事的人,击倒他!对于未曾作恶的你,我们不为毁灭而磨利。

5.14.10

पुत्र इव पितरं गच्छ स्वज इवाभिष्ठितो दश ।
बन्धमिवावक्रामी गच्छ कृत्ये कृत्याकृतं पुनः ॥ ५.१४.१० ॥

如儿子走向父亲,如亲生者近立,如人从束缚中退却,巫术啊,回到施行者那里去吧。

5.14.11

उदेणीव वारण्यभिस्कन्दं मृगीव ।
कृत्या कर्तारमृच्छतु ॥ ५.१४.११ ॥

如羚羊跃起,如母鹿扑跳,愿巫术抵达施行者。

5.14.12

इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति ।
सा तं मृगमिव गृह्णातु कृत्या कृत्याकृतं पुनः ॥ ५.१४.१२ ॥

比箭更直地飞去,愿天地都朝向他。愿她如捉鹿般抓住他——巫术,回到施行者那里。

5.14.13

अग्निरिवैतु प्रतिकूलमनुकूलमिवोदकम् ।
सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥ ५.१४.१३ ॥

愿它逆流而行如火,如水顺流而下。愿它如车轮般轻快回转。愿此咒术再返回施行者身上。