Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 5.17

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.17.1

तेऽवदन् प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा ।
वीडुहरास्तप उग्रं मयोभूरापो देवीः प्रथमजा ऋतस्य ॥ ५.१७.१ ॥

最初的那些存在者谈论了对梵的过失:海洋、水、摩多利湿梵、有力的夺取者、猛烈的苦行、带来福祉的摩耶布湿、从真理中最先诞生的神圣之水。

5.17.2

सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः ।
अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥ ५.१७.२ ॥

君王苏摩首先在不愤怒的情况下把梵的妻子又归还了。伐楼那与密多罗跟随其后,祭司阿耆尼牵着她的手将她带走。

5.17.3

हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेति चेदवोचत् ।
न दूताय प्रहेया तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥ ५.१७.३ ॥

若说“梵的妻子是抵押”,则只能用手去拿她。不可把她交给使者;她就站在那里,如此,刹帝利的国家便得到守护。

5.17.4

यामाहुस्तारकैषा विकेशीति दुच्छुनां ग्राममवपद्यमानाम् ।
सा ब्रह्मजाया वि दुनोति राष्ट्रं यत्र प्रापादि शश उल्कुषीमान् ॥ ५.१७.४ ॥

人们称之为“多罗迦”的她,就是“披发女”,进入恶狗的村庄。梵的妻子困扰着那持火把的兔子已经进入的国土。

5.17.5

ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् ।
तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥ ५.१७.५ ॥

梵行者游行,使毒物震颤;他成为诸神的一个肢体。借着他,布利哈斯帕蒂获得了被苏摩带走的妻子,正如诸神获得了祭勺(jühū)。

5.17.6

देवा वा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसा ये निषेदुः ।
भीमा जाया ब्राह्मणस्यापनीता दुर्धां दधाति परमे व्योमन् ॥ ५.१७.६ ॥

往昔,诸神谈论她,那些坐于苦行(tapas)中的七位仙人。婆罗门的可畏妻子被夺走;她难以掌控,被安置于最高的天空(vyoman)之中。

5.17.7

ये गर्भा अवपद्यन्ते जगद्यच्चापलुप्यते ।
वीरा ये तृह्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ॥ ५.१७.७ ॥

那些胎儿堕落、世界因之而毁的人,互相伤害的英雄们——婆罗门的妻子伤害他们。

5.17.8

उत यत्पतयो दश स्त्रियाः पूर्वे अब्राह्मणाः ।
ब्रह्मा चेद्धस्तमग्रहीत्स एव पतिरेकधा ॥ ५.१७.८ ॥

即使女子先前的十位丈夫都不是婆罗门,若有一位婆罗门握住了她的手,他便是唯一的丈夫。

5.17.9

ब्राह्मण एव पतिर्न राजन्यो न वैश्यः ।
तत्सूर्यः प्रब्रुवन्न् एति पञ्चभ्यो मानवेभ्यः ॥ ५.१७.९ ॥

唯有婆罗门是丈夫,非刹帝利,亦非吠舍。太阳宣告此事,走向五个人类部族。

5.17.10

पुनर्वै देवा अददुः पुनर्मनुष्या अददुः ।
राजानः सत्यं गृह्णाना ब्रह्मजायां पुनर्ददुः ॥ ५.१७.१० ॥

诸神再次归还了她,人们再次归还了她;诸王秉持真理,再次归还了婆罗门的妻子。

5.17.11

पुनर्दाय ब्रह्मजायां कृत्वा देवैर्निकिल्बिषम् ।
ऊर्जं पृथिव्या भक्त्वोरुगायमुपासते ॥ ५.१७.११ ॥

与诸神一同使婆罗门的妻子无过,再次归还她,享受大地的精华后,他们敬拜广受颂赞者(urugāya)。

5.17.12

नास्य जाया शतवाही कल्याणी तल्पमा शये ।
यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥ ५.१७.१२ ॥

在因无知而压制梵妻的国度里,他那带来百般财富的美丽妻子不会躺在床上。

5.17.13

न विकर्णः पृथुशिरास्तस्मिन् वेश्मनि जायते ।
यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥ ५.१७.१३ ॥

在因无知而压制梵妻的国度里,那个家中不会生出无耳、大头的孩子。

5.17.14

नास्य क्षत्ता निष्कग्रीवः सूनानामेत्यग्रतः ।
यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥ ५.१७.१४ ॥

在因无知而压制梵妻的国度里,他那戴金项链的御者不会出现在屠宰场之前。

5.17.15

नास्य श्वेतः कृष्णकर्णो धुरि युक्तो महीयते ।
यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥ ५.१७.१५ ॥

在因无知而压制梵妻的国度里,他那白色、黑耳的牛,虽套在轭上,也不受尊崇。

5.17.16

नास्य क्षेत्रे पुष्करिणी नाण्डीकं जायते बिसम् ।
यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥ ५.१७.१६ ॥

在因无知而压制梵妻的国度里,他的田中没有莲池;莲茎与莲根都不生长。

5.17.17

नास्मै पृश्निं वि दुहन्ति येऽस्या दोहमुपासते ।
यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥ ५.१७.१७ ॥

在因无知而压制梵妻的国度里,服侍她挤奶的人不会为他挤那头斑点牛的奶。

5.17.18

नास्य धेनुः कल्याणी नानड्वान्त्सहते धुरम् ।
विजानिर्यत्र ब्राह्मणो रात्रिं वसति पापया ॥ ५.१७.१८ ॥

对于他,吉祥的母牛不产奶,公牛不负轭;在外族婆罗门与恶女共度夜晚之处。