阿闼婆吠陀 · 颂诗(Sūkta) 5.18
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.18.1
नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे ।
मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ॥ ५.१८.१ ॥
诸神并未把此物赐予你作食物,国王啊。刹帝利啊,不要想吞食婆罗门的牛,它是不可食之物。
5.18.2
अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः ।
स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ॥ ५.१८.२ ॥
被骰子欺骗、作恶、为自己所败的刹帝利,今天就吃掉婆罗门的牛吧;愿我明天不再活着。
5.18.3
आविष्टिताघविषा पृदाकूरिव चर्मणा ।
सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या ॥ ५.१८.३ ॥
她像裹着皮的毒蛇pṛdākū,被恶毒的毒液所包围。刹帝利啊,这婆罗门的牛是猛烈的;不可食用。
5.18.4
निर्वै क्षत्रं नयति हन्ति वर्चोऽग्निरिवारब्धो वि दुनोति सर्वम् ।
यो ब्राह्मणं मन्यते अन्नमेव स विषस्य पिबति तैमातस्य ॥ ५.१८.४ ॥
他确实驱散刹帝利之力,杀灭光辉;如燃起的火焰,烧尽一切。把婆罗门仅仅视为食物的人,就是在饮用毒药taimāta。
5.18.5
य एनं हन्ति मृदुं मन्यमानो देवपीयुर्धनकामो न चित्तात् ।
सं तस्येन्द्रो हृदयेऽग्निमिन्धे उभे एनं द्विष्टो नभसी चरन्तम् ॥ ५.१८.५ ॥
那把他当作柔弱之人而杀害的人,是敌视诸神、贪求财富的,连自己的本分也无法逃脱。因陀罗在他心中点燃火焰;天界与空界都憎恨在其间行走的他。
5.18.6
न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव ।
सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपाः ॥ ५.१८.६ ॥
不可伤害婆罗门;他如同可爱身体中的火。苏摩确是他的继承人,因陀罗是他抵御诅咒的守护者。
5.18.7
शतापाष्ठां नि गिरति तां न शक्नोति निःखिदम् ।
अन्नं यो ब्रह्मणां मल्वः स्वाद्वद्मीति मन्यते ॥ ५.१८.७ ॥
如同吞下百刃利器而无法吐出之人,那贪吃者吃了婆罗门的食物,还以为自己在吃甜食。
5.18.8
जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका दन्तास्तपसाभिदिग्धाः ।
तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ॥ ५.१८.८ ॥
舌是弓弦,言语是箭杆,牙齿涂满苦行之热。婆罗门以此射穿仇视诸神者,以心力之弓,由诸神催动。
5.18.9
तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति शरव्यां न सा मृषा ।
अनुहाय तपसा मन्युना चोत दूरादव भिन्दन्त्येनम् ॥ ५.१८.९ ॥
手持利箭、执兵器的婆罗门射向的靶子,并非徒然。受苦行之热与愤怒驱使,他们从远处便将他劈裂。
5.18.10
ये सहस्रमराजन्न् आसन् दशशता उत ।
ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् ॥ ५.१८.१० ॥
那些有千人和十个百人、无王的人,吃了婆罗门的牛;韦塔哈维耶人遂被击败。
5.18.11
गौरेव तान् हन्यमाना वैतहव्यामवातिरत् ।
ये केसरप्राबन्धायाश्चरमाजामपेचिरन् ॥ ५.१८.११ ॥
牛自己击打他们,越过了韦塔哈维耶女子;那些煮了束发者最后一只母山羊的人。
5.18.12
एकशतं ता जनता या भूमिर्व्यधूनुत ।
प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥ ५.१८.१२ ॥
震撼大地的那百个民族,伤害了婆罗门母牛的后代,遭受了难以承受的败亡。
5.18.13
देवपीयुश्चरति मर्त्येषु गरगीर्णो भवत्यस्थिभूयान् ।
यो ब्राह्मणं देवबन्धुं हिनस्ति न स पितृयाणमप्येति लोकम् ॥ ५.१८.१३ ॥
与诸神为敌者行于凡人之中;饮毒之后,他只剩下骸骨。伤害婆罗门——诸神之亲族——的人,不能抵达祖先之道的世界。
5.18.14
अग्निर्वै नः पदवायः सोमो दायाद उच्यते ।
हन्ताभिशस्तेन्द्रस्तथा तद्वेधसो विदुः ॥ ५.१८.१४ ॥
阿耆尼确实是我们的足迹守护者;苏摩被称为继承人。因陀罗是被控者的击杀者;智者如此知晓。
5.18.15
इषुरिव दिग्धा नृपते पृदाकूरिव गोपते ।
सा ब्राह्मणस्येषुर्घोरा तया विध्यति पीयतः ॥ ५.१८.१५ ॥
如同涂毒之箭,啊人主;如同毒蛇,啊牛主——婆罗门的可怖之箭便是如此;以此它射中那作恶之人。