阿闼婆吠陀 · 颂诗(Sūkta) 5.19
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.19.1
अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन् ।
भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् ॥ ५.१९.१ ॥
他们过度膨胀,仿佛触及天空;因伤害婆利古,斯林阁耶人与吠多阿婆耶人遭到败亡。
5.19.2
ये बृहत्सामानमाङ्गिरसमार्पयन् ब्राह्मणं जनाः ।
पेत्वस्तेषामुभयादमविस्तोकान्यावयत् ॥ ५.१९.२ ॥
那些驱逐唱诵《大娑摩》的安吉罗娑婆罗门的人——愿佩特乌从他们两侧……使他们的幼子远离。
5.19.3
ये ब्राह्मणं प्रत्यष्ठीवन् ये वास्मिञ्छुल्कमीषिरे ।
अस्नस्ते मध्ये कुल्यायाः केशान् खादन्त आसते ॥ ५.१९.३ ॥
那些向婆罗门吐唾沫、或向他索取税赋的人——失去血气,坐在水渠中间吃着头发。
5.19.4
ब्रह्मगवी पच्यमाना यावत्साभि विजङ्गहे ।
तेजो राष्ट्रस्य निर्हन्ति न वीरो जायते वृषा ॥ ५.१९.४ ॥
婆罗门之牛在烹煮时被在其上砍割,她便毁灭王国的光辉;那里不会生出英雄,也不会生出如公牛般强健的男子。
5.19.5
क्रूरमस्या आशसनं तृष्टं पिशितमस्यते ।
क्षीरं यदस्याः पीयते तद्वै पितृषु किल्बिषम् ॥ ५.१९.५ ॥
对她残酷的宰杀、贪婪地割取她的肉,以及饮用她的乳——这些实在是对祖先的罪过。
5.19.6
उग्रो राजा मन्यमानो ब्राह्मणं यो जिघत्सति ।
परा तत्सिच्यते राष्ट्रं ब्राह्मणो यत्र जीयते ॥ ५.१९.६ ॥
一个暴烈的国王,自以为强大,想要伤害婆罗门——那个王国便被耗尽,就在婆罗门被战胜之处。
5.19.7
अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः ।
द्व्यास्या द्विजिह्वा भूत्वा सा राष्ट्रमव धूनुते ब्रह्मज्यस्य ॥ ५.१९.७ ॥
她化作八足、四目、四耳、四颚、二面、双舌的形体,震落那伤害婆罗门者的国土。
5.19.8
तद्वै राष्ट्रमा स्रवति नावं भिन्नामिवोदकम् ।
ब्रह्माणं यत्र हिंसन्ति तद्राष्ट्रं हन्ति दुछुना ॥ ५.१९.८ ॥
那国家如同破船漏水般流逝;在他们伤害婆罗门的地方,厄运便打击并毁灭那国家。
5.19.9
तं वृक्षा अप सेधन्ति छायां नो मोप गा इति ।
यो ब्राह्मणस्य सद्धनमभि नारद मन्यते ॥ ५.१९.९ ॥
树木将他推开,说:「不要靠近我们的树荫」;那贪图婆罗门真实财富的人,啊,那挚友,便遭此对待。
5.19.10
विषमेतद्देवकृतं राजा वरुणोऽब्रवीत् ।
न ब्राह्मणस्य गां जग्ध्वा रास्त्रे जागार कश्चन ॥ ५.१९.१० ॥
国王伐楼那说:「这是神明所制的毒药」;吃了婆罗门之牛的人,在国中无人能够安然醒来。
5.19.11
नवैव ता नवतयो या भूमिर्व्यधूनुत ।
प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥ ५.१९.११ ॥
那正是大地抖落的九十九者;他们伤害百姓,侵犯了婆罗门妇人——这本不可能——于是战败而毁灭。
5.19.12
यां मृतायानुबध्नन्ति कूद्यं पदयोपनीम् ।
तद्वै ब्रह्मज्य ते देवा उपस्तरणमब्रुवन् ॥ ५.१९.१२ ॥
人们为死者用脚拿来、系上的那块裹布,诸神说,那便是伤害婆罗门者的卧榻。
5.19.13
अश्रूणि कृपमानस्य यानि जीतस्य वावृतुः ।
तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥ ५.१९.१३ ॥
为活着的人哀哭者的泪水,凡是退回的——боги将那侮辱婆罗门者安置为水的份额。
5.19.14
येन मृतं स्नपयन्ति श्मश्रूणि येनोन्दते ।
तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥ ५.१९.१४ ॥
用来为死者沐浴、用来沾湿其胡须的,那侮辱婆罗门者,诸神将其安置为水的份额。
5.19.15
न वर्षं मैत्रावरुणं ब्रह्मज्यमभि वर्षति ।
नास्मै समितिः कल्पते न मित्रं नयते वशम् ॥ ५.१९.१५ ॥
密特拉与伐楼那的雨不降在侮辱婆罗门者身上。集会不容纳他,朋友也不能使他顺从。