阿闼婆吠陀 · 颂诗(Sūkta) 5.20
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.20.1
उच्चैर्घोषो दुन्दुभिः सत्वनायन् वानस्पत्यः संभृत उस्रियाभिः ।
वाचं क्षुणुवानो दमयन्त्सपत्नान्त्सिंह इव जेष्यन्न् अभि तंस्तनीहि ॥ ५.२०.१ ॥
战鼓高声轰鸣,使敌人战栗;它由树木制成,以牛皮蒙覆。使你的声音回响,制服对手,如将获胜的狮子,向他们怒吼吧。
5.20.2
सिंह इवास्तानीद्द्रुवयो विबद्धोऽभिक्रन्दन्न् ऋषभो वासितामिव ।
वृषा त्वं वध्रयस्ते सपत्ना ऐन्द्रस्ते शुष्मो अभिमातिषाहः ॥ ५.२०.२ ॥
它像狮子般咆哮,如被缚的公牛为母牛的呼唤而哞叫。你是公牛;你的对手是无能之辈。因陀罗的力量属于你,它战胜敌对的仇敌。
5.20.3
वृषेव यूथे सहसा विदानो गव्यन्न् अभि रुव संधनाजित् ।
शुचा विध्य हृदयं परेषां हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः ॥ ५.२०.३ ॥
如群中的公牛凭力量而知,寻求牲畜,赢得战利之物者,向他们吼叫。以悲痛刺穿敌人的心;让敌人被逐出村庄离去吧。
5.20.4
संजयन् पृतना ऊर्ध्वमायुर्गृह्या गृह्णानो बहुधा वि चक्ष्व ।
दैवीं वाचं दुन्दुभ आ गुरस्व वेधाः शत्रूणामुप भरस्व वेदः ॥ ५.२०.४ ॥
使军队得胜,使生命高举,以多种方式取得家中财富,远望四方。啊,战鼓,以神圣之声轰鸣;作为创造者,将敌人的财富带来。
5.20.5
दुन्दुभेर्वाचं प्रयतां वदन्तीमाशृण्वती नाथिता घोषबुद्धा ।
नारी पुत्रं धावतु हस्तगृह्यामित्री भीता समरे वधानाम् ॥ ५.२०.५ ॥
聆听战鼓发出的声音,它说话,她因鼓声而警觉,哀叫——让敌人的妻子,手被握住,惊恐地,为战死者,奔向她的儿子。
5.20.6
पूर्वो दुन्दुभे प्र वदासि वाचं भूम्याः पृष्ठे वद रोचमानः ।
अमित्रसेनामभिजञ्जभानो द्युमद्वद दुन्दुभे सूनृतावत् ॥ ५.२०.६ ॥
鼓啊,请先发出你的声音。在大地之背上闪耀而言。摧毁敌军,以光明而甘美真实的声音宣告吧,鼓啊。
5.20.7
अन्तरेमे नभसी घोषो अस्तु पृथक्ते ध्वनयो यन्तु शीभम् ।
अभि क्रन्द स्तनयोत्पिपानः श्लोककृन् मित्रतूर्याय स्वर्धी ॥ ५.२०.७ ॥
愿你的轰鸣响彻这两重天之间;愿你的回声各自迅速散去。雷鸣般涌起,呼喊吧,创造名声者,为盟友的号角而战,赢得天界。
5.20.8
धीभिः कृतः प्र वदाति वाचमुद्धर्षय सत्वनामायुधानि ।
इन्द्रमेदी सत्वनो नि ह्वयस्व मित्रैरमित्राँ अव जङ्घनीहि ॥ ५.२०.८ ॥
你由智慧所造,发出声音。唤醒勇士们的武器。啊,因陀罗所爱的强者,召唤盟友,将敌人击倒。
5.20.9
संक्रन्दनः प्रवदो धृष्णुषेणः प्रवेदकृद् बहुधा ग्रामघोषी ।
श्रेयो वन्वानो वयुनानि विद्वान् कीर्तिं बहुभ्यो वि हर द्विराजे ॥ ५.२०.९ ॥
你同声咆哮,在军中勇猛,以多种方式宣告,响彻村落,获取福祉,洞知征兆。为众人带来荣誉,为二王而鸣。
5.20.10
श्रेयःकेतो वसुजित्सहीयान्त्संग्रामजित्संशितो ब्रह्मणासि ।
अंशून् इव ग्रावाधिषवणे अद्रिर्गव्यन् दुन्दुभेऽधि नृत्य वेदः ॥ ५.२०.१० ॥
你是吉祥的旌旗,赢得财富,至为强大,战无不胜,经由梵咒磨砺。如压榨时石头碾碎苏摩茎,啊鼓,渴望牛群,在财富之上舞动吧。
5.20.11
शत्रूषाण्नीषादभिमातिषाहो गवेषणः सहमान उद्भित् ।
वाग्वीव मन्त्रं प्र भरस्व वाचं सांग्रामजित्यायेषमुद्वदेह ॥ ५.२०.११ ॥
你是降服敌人的,战胜对手的,寻求牛群的,忍耐的,升起的。如同语言承载神圣的咒语,为了战斗的胜利,请发出言语;提升你的力量。
5.20.12
अच्युतच्युत्समदो गमिष्ठो मृधो जेता पुरएतायोध्यः ।
इन्द्रेण गुप्तो विदथा निचिक्यद्धृद्द्योतनो द्विषतां याहि शीभम् ॥ ५.२०.१२ ॥
不动摇者,使敌人倒下而欢喜,行走最为迅速,征服敌军,走在前面,不可战胜——受因陀罗守护,在集会与战斗中辨识,照亮心灵的你:迅速奔赴敌人那里。