阿闼婆吠陀 · 颂诗(Sūkta) 5.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.21.1
विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे ।
विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान् दुन्दुभे जहि ॥ ५.२१.१ ॥
鼓啊,使敌人失去心志、陷入沮丧吧!我们在敌人之中安放仇恨、战栗与恐惧;鼓啊,击倒他们吧!
5.21.2
उद्वेपमाना मनसा चक्षुषा हृदयेन च ।
धावन्तु बिभ्यतोऽमित्राः प्रत्रासेनाज्ये हुते ॥ ५.२१.२ ॥
心、眼与胸膛皆颤抖,受惊的敌人啊,逃去吧——当酥油被献上时,在恐怖之中。
5.21.3
वानस्पत्यः संभृत उस्रियाभिर्विश्वगोत्र्यः ।
प्रत्रासममित्रेभ्यो वदाज्येनाभिघारितः ॥ ५.२१.३ ॥
以木制成、以牛皮备好、属于一切族类的鼓啊!——以酥油洒浇,向敌人宣告恐怖吧。
5.21.4
यथा मृगाः संविजन्त आरण्याः पुरुषादधि ।
एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥ ५.२१.४ ॥
如野鹿惧怕人而颤抖,鼓啊,你便向敌人咆哮吧;使他们惊恐,迷乱他们的心志。
5.21.5
यथा वृकादजावयो धावन्ति बहु बिभ्यतीः ।
एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥ ५.२१.५ ॥
如羊群畏惧狼而四散奔逃,鼓啊,你便向敌人咆哮吧;使他们惊恐,迷乱他们的心志。
5.21.6
यथा श्येनात्पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर्यथा ।
एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥ ५.२१.६ ॥
如白昼天空中的飞鸟惧怕猛禽,又如惧怕狮子的吼声,鼓啊,你便向敌人咆哮吧;使他们惊恐,迷乱他们的心志。
5.21.7
परामित्रान् दुन्दुभिना हरिणस्याजिनेन च ।
सर्वे देवा अतित्रसन् ये संग्रामस्येषते ॥ ५.२१.७ ॥
用战鼓和鹿皮把敌人远远驱散;所有奔赴战场的神明都让他们战栗。
5.21.8
यैरिन्द्रः प्रक्रीडते पद्घोषैश्छायया सह ।
तैरमित्रास्त्रसन्तु नोऽमी ये यन्त्यनीकशः ॥ ५.२१.८ ॥
以因陀罗与其影子嬉戏时的那些足音,愿这些成列前进的敌人为我们而战栗。
5.21.9
ज्याघोषा दुन्दुभयोऽभि क्रोशन्तु या दिशः ।
सेनाः पराजिता यतीरमित्राणामनीकशः ॥ ५.२१.९ ॥
愿弓弦之声与战鼓向着那些方向轰鸣,敌人被击败的军队正从那里成列逃散。
5.21.10
आदित्य चक्षुरा दत्स्व मरीचयोऽनु धावत ।
पत्सङ्गिनीरा सजन्तु विगते बाहुवीर्ये ॥ ५.२१.१० ॥
阿底提亚啊,把你的目光投向他们;光线啊,追随他们奔跑。待他们臂力消散,让步兵紧紧缠住他们。
5.21.11
यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृनीत शत्रून् ।
सोमो राजा वरुणो राजा महादेव उत मृत्युरिन्द्रः ॥ ५.२१.११ ॥
你们这些以普里希尼为母的猛烈摩录多,与因陀罗为伴,彻底碾碎敌人吧。愿君王苏摩、君王婆楼那、大神、死神以及因陀罗也与我们同在。
5.21.12
एता देवसेनाः सूर्यकेतवः सचेतसः ।
अमित्रान् नो जयन्तु स्वाहा ॥ ५.२१.१२ ॥
愿这些以太阳为旗帜、同心一志的天神之军,为我们战胜敌人。斯瓦哈。