Vedyatra वेदयात्रा
検索

アタルヴァ・ヴェーダ · スークタ 5.22

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

5.22.1

अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा वरुणः पूतदक्षाः ।
वेदिर्बर्हिः समिधः शोशुचाना अप द्वेषांस्यमुया भवन्तु ॥ ५.२२.१ ॥

アグニよ、ここからこの熱病を追い払え。清らかな力のソーマ、圧搾石、ヴァルナ、祭壇、聖草、燃える薪よ、敵意を遠くへ去らせよ。

5.22.2

अयं यो विश्वान् हरितान् कृणोष्युच्छोचयन्न् अग्निरिवाभिदुन्वन् ।
अधा हि तक्मन्न् अरसो हि भूया अधा न्यङ्ङधरान् वा परेहि ॥ ५.२२.२ ॥

熱病よ、火のように燃えて緑のすべてを枯らすお前は、まことに味のない者となれ。今は下へ、あるいはさらに下へ行け。

5.22.3

यः परुषः पारुषेयोऽवध्वंस इवारुणः ।
तक्मानं विश्वधावीर्याधराञ्चं परा सुवा ॥ ५.२२.३ ॥

関節をねじり、節だらけで、倒れたもののように赤く、あらゆる所を駆け巡る熱病よ、それを下へ遠くへ追い払え。

5.22.4

अधराञ्चं प्र हिणोमि नमः कृत्वा तक्मने ।
शकम्भरस्य मुष्टिहा पुनरेतु महावृषान् ॥ ५.२२.४ ॥

熱病に礼拝して、それを下へ送る。シャカンバラの拳打つ者、大いなる牡牛よ、また戻ってこい。

5.22.5

ओको अस्य मूजवन्त ओको अस्य महावृषाः ।
यावज्जातस्तक्मंस्तावान् असि बल्हिकेषु न्योचरः ॥ ५.२२.५ ॥

その住処はムジャヴァント山、その住処は大いなる牡牛たち。熱病よ、お前は生まれたほどの大きさであり、バールリーカの間を低く彷徨う者だ。

5.22.6

तक्मन् व्याल वि गद व्यङ्ग भूरि यावय ।
दासीं निष्टक्वरीमिच्छ तां वज्रेण समर्पय ॥ ५.२२.६ ॥

熱病よ、蛇よ、離れて語れ。四肢を砕くものよ、遠くへ追い払え。女奴隷ニシュタクヴァリーを探し出し、彼女を雷霆に引き渡せ。

5.22.7

तक्मन् मूजवतो गच्छ बल्हिकान् वा परस्तराम् ।
शूद्रामिच्छ प्रफर्व्यं तां तक्मन् वीव धूनुहि ॥ ५.२२.७ ॥

ああ熱病よ、ムージャヴァトから去れ、あるいはバーリーカの彼方へさらに遠く去れ。ああ熱病よ、あの震える首陀羅の女を求めて、鳥のように彼女を振り払え。

5.22.8

महावृषान् मूजवतो बन्ध्वद्धि परेत्य ।
प्रैतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा ॥ ५.२२.८ ॥

大いなる牡牛のようなムージャヴァトから、親族のように立ち上がって出て行け。熱病に我々は言う。これらは他の田畑である、そこへ向かえ。

5.22.9

अन्यक्षेत्रे न रमसे वशी सन् मृडयासि नः ।
अभूदु प्रार्थस्तक्मा स गमिष्यति बल्हिकान् ॥ ५.२२.९ ॥

他の田畑では汝は喜ばない。従順になって、汝は我らに慈悲を示す。熱病は強くなった。それはバーリーカの人々のもとへ行くであろう。

5.22.10

यत्त्वं शीतोऽथो रूरः सह कासावेपयः ।
भीमास्ते तक्मन् हेतयस्ताभिः स्म परि वृङ्ग्धि नः ॥ ५.२२.१० ॥

汝は寒さであり、また熱であり、咳とともに我らを震わせる。ああ熱病よ、汝の恐ろしい矢によって、我らを遠ざけよ。

5.22.11

मा स्मैतान्त्सखीन् कुरुथा बलासं कासमुद्युगम् ।
मा स्मातोऽर्वाङैः पुनस्तत्त्वा तक्मन्न् उप ब्रुवे ॥ ५.२२.११ ॥

これらを汝の友とするな、痰と激しい咳を。ここからまた我らの方へ戻って来るな。ああ熱病よ、汝にこう言う。

5.22.12

तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह ।
पाप्मा भ्रातृव्येण सह गछामुमरणं जनम् ॥ ५.२२.१२ ॥

ああ熱病よ、兄の痰、妹の咳、敵の罪とともに、あの家なき民のもとへ行け。

5.22.13

तृतीयकं वितृतीयं सदन्दिमुत शारदम् ।
तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥ ५.२२.१३ ॥

三日熱、隔二日熱、持続する熱、秋の熱、寒熱、焼けつく熱、夏の熱、雨季の熱を滅ぼせ、おおタクマンよ。

5.22.14

गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो मगधेभ्यः ।
प्रैष्यन् जनमिव शेवधिं तक्मानं परि दद्मसि ॥ ५.२२.१४ ॥

ガンダーラの人々から、ムージャヴァットから、アンガから、マガダから、人や宝を送り出すように、私たちはタクマンを遠くへ送り出す。