Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 5.28

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

5.28.1

नव प्राणान् नवभिः सं मिमीते दीर्घायुत्वाय शतशारदाय ।
हरिते त्रीणि रजते त्रीण्ययसि त्रीणि तपसाविष्टितानि ॥ ५.२८.१ ॥

以九者度量九气,为求长寿,为满百个秋天。绿色中三,银中三,铁中三,被苦行之热包裹的三。

5.28.2

अग्निः सूर्यश्चन्द्रमा भूमिरापो द्यौरन्तरिक्षं प्रदिशो दिशश्च ।
आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु ॥ ५.२८.२ ॥

阿耆尼、太阳、月亮、大地、诸水、天空、中间空界、间方与方位,以及与四时相应的时令之力——愿它们借此三重咒使我渡过。

5.28.3

त्रयः पोषास्त्रिवृति श्रयन्तामनक्तु पूषा पयसा घृतेन ।
अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् ॥ ५.२८.३ ॥

愿三种滋养在此三重咒中安居;愿普山以乳与酥油涂抹之。食物的丰盈、人的丰盈、牲畜的丰盈——愿它们在此为你安居。

5.28.4

इममादित्या वसुना समुक्षतेममग्ने वर्धय ववृधानः ।
इममिन्द्र सं सृज वीर्येणास्मिन् त्रिवृच्छ्रयतां पोषयिष्णु ॥ ५.२८.४ ॥

诸阿底提以财富洒之;阿耆尼啊,你且增长,使此增长。因陀罗啊,以勇力使之相合;愿滋养之物安居于此三重咒中。

5.28.5

भूमिष्ट्वा पातु हरितेन विश्वभृदग्निः पिपर्त्वयसा सजोषाः ।
वीरुद्भिष्टे अर्जुनं संविदानं दक्षं दधातु सुमनस्यमानम् ॥ ५.२८.५ ॥

愿大地以绿线护佑你;愿承载万物的阿耆尼以铁欢喜,使你渡过。愿与草木相合的银护符,在你身中安立力量,心意欢悦。

5.28.6

त्रेधा जातं जन्मनेदं हिरण्यमग्नेरेकं प्रियतमं बभूव सोमस्यैकं हिंसितस्य परापतत् ।
अपामेकं वेधसां रेत आहुस्तत्ते हिरण्यं त्रिवृदस्त्वायुषे ॥ ५.२८.६ ॥

这金子以三种方式诞生:阿耆尼的一部分成为最可爱之物,受伤的苏摩的一部分飞走了,据说创造者的一颗种子来自水中。愿这金子为你成为三重,以求长寿。

5.28.7

त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् ।
त्रेधामृतस्य चक्षणं त्रीण्यायूंषि तेऽकरम् ॥ ५.२८.७ ॥

嚈摩陀尼的三重长寿,迦叶波的三重长寿;不死者之眼有三重。我为你造了三种寿命。

5.28.8

त्रयः सुपर्णास्त्रिवृता यदायन्न् एकाक्षरमभिसंभूय शक्राः ।
प्रत्यौहन् मृत्युममृतेन साकमन्तर्दधाना दुरितानि विश्वा ॥ ५.२८.८ ॥

三只美翼之鸟以三重之力而来;聚合于一个音节之中,变得强大。与不死者一同将死亡逼退,掩藏了一切恶业。

5.28.9

दिवस्त्वा पातु हरितं मध्यात्त्वा पात्वर्जुनम् ।
भूम्या अयस्मयं पातु प्रागाद्देवपुरा अयम् ॥ ५.२८.९ ॥

愿天上的翠绿护佑你;愿中界的光明之物护佑你。愿大地的铁制之物护佑你;此物出自诸神之城。

5.28.10

इमास्तिस्रो देवपुरास्तास्त्वा रक्षन्तु सर्वतः ।
तास्त्वं बिभ्रद्वर्चस्व्युत्तरो द्विषतां भव ॥ ५.२८.१० ॥

这三座诸神之城,愿它们从四面守护你。承载它们,成为光辉之人,超越你的敌人。

5.28.11

पुरं देवानाममृतं हिरण्यं य आबेधे प्रथमो देवो अग्रे ।
तस्मै नमो दश प्राचीः कृणोम्यनु मन्यतां त्रिवृदाबधे मे ॥ ५.२८.११ ॥

诸神不朽的金城,最初由首位神所系缚;我向他行十次朝东的礼敬,愿他允许我以三股绳索的系缚(Tritṛt)。

5.28.12

आ त्वा चृतत्वर्यमा पूषा बृहस्पतिः ।
अहर्जातस्य यन् नाम तेन त्वाति चृतामसि ॥ ५.२८.१२ ॥

愿阿利耶曼、普善和梵天主(布里哈斯帕蒂)紧紧系缚你。以白日所生者的名字,以此名我们紧紧系缚你。

5.28.13

ऋतुभिष्ट्वार्तवैरायुषे वर्चसे त्वा ।
संवत्सरस्य तेजसा तेन संहनु कृण्मसि ॥ ५.२८.१३ ॥

我以四季与季节之神系缚你,以求寿命与光辉。以年岁的光辉,以此我们将你连结。

5.28.14

घृतादुल्लुप्तं मधुना समक्तं भूमिदृंहमच्युतं पारयिष्णु ।
भिन्दत्सपत्नान् अधरांश्च कृण्वदा मा रोह महते सौभगाय ॥ ५.२८.१४ ॥

从酥油中升起,以蜜涂抹,稳固于大地,不坠落,能渡人。摧破敌人,使他们低下,为了大福运,攀上我身吧。